8-2-101 चित् इति च उपमार्थे प्रयुज्यमाने पदस्य पूर्वत्र असिद्धम् अनुदात्तं
अनुदात्तमिति वर्तते। चिदित्येतस्मिन् निपात उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति। प्लुतोऽप्यत्र विधीयते, न गुणमात्रम्। अग्निचिद् भाया॒३त्। राजचिद् भाया॒३त्। अग्निरिव भायात्, राजेव भायादित्यर्थः। उपमार्थ इति किम् ? कथंचिदाहुः। प्रयुज्यमान इति किम् ? अग्निर्माणवको भायात्॥
वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥
चिदिति चोपमार्थे प्रयुज्यमाने॥