एकं बहुव्रीहिवत्

8-1-9 एकं बहुव्रीहिवत् सर्वस्य द्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकमित्येतत् शब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। एकै॑कमक्षरं पठति। एक॑ैकयाहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेनातिदेशिके बहुव्रीहौ न भवन्ति। एकै॑कस्मै। <<न बहुव्रीहौ>> १.१.२९ इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिरिति विज्ञानात्। नन॑, सुसु॑। <<नञ्सुभ्याम्>> ६.२.१७२ इत्यन्तोदात्तत्वं न भवति। ऋग्ऋक्, पूःपूः। <<ऋक्पूः०>> ५.४.७४ इति समासान्तो न भवति॥

Siddhanta Kaumudi

Up

द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' <{SK222}> इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एकं बहुव्रीहिवत्>> - एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते,वीप्सामात्रविषयमिद॑मिति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति-एकैकमिति । इहेति ।एकैक॑मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः । ननुयत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह — बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्चसुपोर्लुकी॑त्यत्र,समुदायात्सु॑बित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवत्त्वेऽप्युदाहरति — एकैकयाऽऽहुत्येति ।एकये॑त्यस्य द्विर्वचने सति एकया — एकयेति स्थिते,बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा.ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः ।एक#ऐका॑मित्यत्र उत्तरखण्डस्यसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वे' ति लिङ्गादित्युक्तत्वादिति । बोध्यम् । ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह — इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः ।तस्य पूर्वोऽवग्रहः॑ इति प्रातिशाख्यम् । 'एकैकयेत्येक-एकया' इतीष्यते पूर्वखण्डस्य पुवत्त्वम् । बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः । तैत्तिरीयास्तु 'एकैकयेत्येका एकया' इत्येवाऽवगृह्णन्ति ।एकं समासव॑दित्येव सिद्धे बहुव्रीहिग्रहणंबहुव्रीहौ प्रकृत्यापूर्वपद॑मिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहिव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह — न बहुव्रीहावित्यत्रेति ।विभाषा दिक्समासे बहुव्रीहौ॑ इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ॑ इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह — त#एनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह — वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति ।उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे ' नबहुव्रीहौ' इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः ।

Padamanjari

Up

अत्र यदि केवलो बहुव्रीहिवद्भावोऽनिर्दिष्टविषयोऽनेन विधीयते, ततश्चेहापि प्राप्नोति - एक इति, ततश्च सुब्लुक्, स्यात् । अस्तु, बहुव्रीहिवद्भावादपरः सुः प्रभविष्यति ? नैव चात्र सुब्लुक् प्राप्नोति, एक इत्यस्य प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् ।'कृतिद्धितसमासाश्च' इत्यत्र च समासग्रहणं नियमार्थम्, न विध्यर्थमिति तेनापि नास्ति प्रातिपदिकत्वम् । इह तर्ह्येकेति पुंवद्भावः प्राप्नोति ? स्यादेवतन् -'द्वे' इत्यधिकाराद् द्विर्वचनसन्नियोगेन विधीयमानो बहुव्रीहिवद्भावस्तदभावादिह न भवतीति । अथ तदपि द्विर्वचनं तेन विधीयमानमत्र कस्मान्न भवति ? तस्माद्वक्तव्योऽस्य विषयः । अत आह - एकमित्येतच्छब्दरूपं द्विरुक्तमिति । सत्यम्;'द्वे' इत्यनुवर्तते, न च तेन द्विर्वचनं विधीयते, किं तर्हि ? अन्येन विहितनूद्य तत्र बहुव्रीहिवद्भावो विधीयते । क्व चान्येन द्विर्वचनं विहितम् ? वीप्सायाम् । यदि पुनर्वीप्साग्रहणमनुवर्त्य तत्र बहुव्रीहिवद्भावो विधीयेत ? नैवं शक्यम्; बहुव्रीहिवद्भावेन द्विर्वचनं बाध्यते । अथ यदि वीप्सायां द्वे इत्येवमुभयमनुवर्त्य द्विर्वचनं बहुव्रीहिवद्भावः - इत्युभयमनेन विधीयते, न दोषो भवति । वःतिकारस्तु किमनया वीप्साग्रहणानुवृत्येति'द्वे' इत्येवान्ववीवृतत् । सुब्लोपपुंवद्भावाविति । यद्यप्येतौ बहुव्रीहाविति नोच्येते, तथापि तत्र दृष्टावित्येतयोरतिदेशः । क्वचितु वृतावेवायमर्थः पठ।ल्ते । एकैकमिति । एकमित्यस्य द्विर्वचने द्वयोरपि सुपोर्लुकि सति पुनर्बहुव्रीहिवद्भावादेव सुप् । एकैकयेति । टाबन्तातृतीया, तदन्तस्य द्विर्वचनम्, सुब्लुकि पुंवद्भावेन पूर्वभागे टापो निवृत्तिः । कः पुनरत्र टापो निवृतौ सत्यामसत्यां वा विशेषः । ? अवग्रहेऽस्ति विशेषः - ऐकैकयेत्येक - एकयेति भवति । उतरत्र च गतगतेत्यादौ पुंवद्भावस्य प्रयोजनम् । ननु यदि यच्च यावच्च बहुव्रीहौ दृष्ट्ंअ कार्य तस्य सर्वस्यातिदेशः; सर्वनामसंज्ञाप्रतिषेधः, स्वरः, समासान्त इत्येते विधयः प्राप्नुवन्ति ? अत आह - सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ता इति । न बहुव्रीहाविति प्रतिषेधो न भवतीति । तत्र हि'विभाषा दिक्समासे बहुव्रीहौ' इत्यतः'बहुव्रीहौ' इत्यनुवर्तमाने पुनर्वहुव्रीहिग्रहणम् - बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । तेन संज्ञाप्रतिषेधस्तावत्समासाधिकारे बहुव्रीहौ विज्ञायते । नन, सुसु इति । ठाबाधे चऽ इति द्विर्वचनम् । नन करोति, सुसु जागर्तीत्यादिवाक्यैकदेश उदाहृतः । नञ्सुभ्यामित्यन्तोदातत्वं न भवतीति । तत्र हि'वनं समासे' इत्यतः सिंहावलोकितन्यायेन'समासे' इति सम्बध्यते,'बहुव्रीहाविदमेततद्भ्यः' इत्यतः'बहुव्रीहौ' इति च । तत्र बहुव्रीहेः समासत्वाव्यभिचारे पुनः समास इति विशेषणं समासाधिकारविहितबहुव्रीहिपरिग्रहार्थण् । अथात्र'नञ्सुभ्याम्' इत्यन्तोदातत्वे सति कः स्वरो भवति ? अत्र हि चत्वारः स्वराः प्राप्नुवन्ति - समासान्तोदातत्वं च । तत्र'नञ्सुभ्याम्' इत्ययं स्वरो न भवतीत्युक्तम् । आम्रेडितानुदातत्वमपि न भवति, किं कारणम् ? कार्यातिदेशे तावदिदमेव कार्याणां विधायकमिति परत्वादाम्रेडितानुदातत्वं बहुव्रीहिस्वरेण बाध्यते । शास्त्रातिदेशेऽपि विरुद्धस्य स्वाश्रयस्यातिदेशेन निवर्तनान्नैवाम्रेडितानुदातत्वं भवति,'बहुव्रीहौ प्रकृत्या' इत्यत्र च न समासग्रहणमनुवर्तते, तेन बहुव्रीहिवद्भावात्पूर्वपदप्रकृतिस्वरो भवन् समासान्तोदातत्वं बाधते । ऋगृगिति । ठाबाधे चऽ इति द्विर्वचनम् । ऋक्पूरिति समासान्तो न भवतीति । तत्र हि'समासाच्च तद्विषयात्' इत्यतः'समासात्' इत्यनुवर्तमाने पुनः समासग्रहणं समासाधिकारे विहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तो न भवतीति । एवमेते संज्ञाप्रतिषेधादयः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । वार्तिककारस्तु सर्वमेवैतद्वाचनिकं मन्यते, यदाह -'सर्वनामस्वरसमासान्तेषु दोषः' इति । अथ ननेत्यत्र बहुव्रीहिवद्भावान्नलोपः कस्मान्न भवति ? उच्यते; ठुतरपदेऽ इति वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमितभावो बाध्यते, यथा - मद्रहृदो भद्रहृद इत्यत्र रेफस्य ठचो रहाभ्यां द्वेऽ इति द्विर्वचनप्रसङ्गे उक्तम् -'नेमौ रहौ कार्यिणौ, किं तहि ? निमितमिमौ द्विर्वचनस्य' इति । अयं तु परिहारः पूर्वत्रापि यथासम्भवं द्रष्टव्यः ॥