8-1-10 आबाधे च सर्वस्य द्वे बहुव्रीहिवत्
आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, नाभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः। बहुव्रीहिवत् चास्य कार्यं भवति। ग॒तग॑तः। न॒ष्टन॑ष्टः। प॒ति॒तप॑तितः। ग॒तग॑ता। न॒ष्टन॑ष्टा। प॒ति॒तप॑तिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्क्ते प्रयोक्ता॥
पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः ॥
<<आबाधे च>> - आबाधे च । आबाधः=पीडा । तदाह — पीडायामिति । गतगत इति । 'प्रिया विना काल' इति शेषः । आबाधं दर्शयितुमाह — विरहादिति । स्त्रीवियोगादित्यर्थः । बहुव्रीहिवद्भावादिति । 'गत' इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः । गतगतेति ।ग्रिये॑ति शेषः । इयमपि स्त्रीविरहात्पीडमानस्यौक्तिः । एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमितिस्त्रियाः पुंव॑दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह — इह पुंवद्भाव इति ।
आबाधनमाबाध इति । भावे घञ् । प्रयोक्तृधर्मो नाभिधेयधर्मैति । अभिधेयधर्मत्वे हि बाधितपीडितादिशब्दानामेव द्विर्वचनं स्यात्, न गतादिशब्दानाम्, प्रयोक्तृधर्मत्वे हि तेषामपि भवतीति व्याप्तिर्भवति । तत्र वर्तमानस्येति । द्विर्वचने सत्याबाधस्य गम्यमानत्वाद् गतादिशब्दानां तत्र वृत्तिः, न तु तदभिधानात् । प्रियस्य चिरगमनादिनेति । प्रयोक्तृधर्मत्वमाबाधस्य दर्शयति । आदिशब्देन नाशादेर्ग्रहणम् ॥