8-1-8 वाक्यादेः आमन्त्रितस्या असूयासम्मतिकोपकुत्सनभर्त्सनेषु सर्वस्य द्वे
index: 8.1.8 sutra: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
एकार्थः पदसमूहो वाक्यम्। वाक्यादेरामन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद् वाक्यं भवति। तत्र परगुणानामसहनमसूया। पूजा सम्मतिः। कोपः क्रोधः। निन्दनं कुत्सनम्। अपकारशब्दैर्भयोत्पादनं भर्त्सनम्। एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः। असूयायाम् तावत् माणवक 3 माणवक, अभिरूपक 3 अभिरूपक, रिक्तं ते आभिरूप्यम्। सम्मातौ माणवक 3 माणवक, अभिरूपक 3 अभिरूपक, शोभनः खल्वसि। कोपे माणवक 3 माणवक, अविनीतक 3 अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शक्तिके 3 शक्तिके, यष्टिके 3 यष्टिके, रिक्ता ते शक्तिः। भर्त्सने चौर चौर 3, वृषल वृषल 3, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम्। असूयादिषु स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु 8.2.103 इति पूर्वपदस्य प्लुतः। भर्त्सने तु आम्रेडितं भर्त्सने 8.2.95 इत्याम्रेडितस्य एव प्लुतः। वाक्यादेः इति किम्? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक। आमन्त्रितस्य इति किम्? उदारो देवदत्तः। असूयादिषु इति किम्? देवदत्त गामभ्याज शुक्लाम्।
index: 8.1.8 sutra: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
असूयायाम् । सुन्दर सुन्दर वृथा ते सौन्दर्यम् । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम् ।
index: 8.1.8 sutra: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु - वाक्यादेः । 'द्वे स्त' इति शेषः । यद्यपि कोपाद्भत्र्सनम्, असूयया कुत्सनं, तथापि विनापि कोपाऽसूये भत्र्सनकुत्सनयोः शिष्यादौ संभवात्पृथग्ग्रहणमिति भाष्ये स्पष्टम् । सुन्दरेति । सोन्दर्यमसहमानस्येदं वाक्यम् । देवेति । तव वन्दनं सम्मतिमित्यर्थः । दुर्विनीतेति । क्रोधाविष्टस्य वाक्यम् । ज्ञास्यसीति ।दुर्विनयस्य फल॑मिति शेषः । धानुष्केति । युद्धाऽसमर्थं प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् ।
index: 8.1.8 sutra: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
एकार्थः पदसमूहो वाक्यमिति । यथाह भगवाञ्चैमिनिः - अर्थैकत्वादेकं वाक्यं साकांक्षं चेद्विभागे स्यात्ऽ इति । क्वचितु ठेकतिङ्पदसमूहो वाक्यम्ऽ इति पठ।ल्ते, एका तिङ्विभक्तिर्यत्र स एकतिङ् । क्वचितु न किञ्चिदपि वाक्यलक्षणं पठ।ल्ते । असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवतीति । यद्यपि वाक्यादेरिति समासे गुणीभूतं वाक्यम्, तथाप्यसूयादीनां तेनैव सम्बन्धः - असूयादिषु यद्वाक्यं तदादेरिति, न तु प्रधानेन वाक्यादिनाऽऽमन्त्रितेन । प्रयोक्तृधर्मा ह्यसूयादयो नाभिधेयधर्माः, ते च वाक्येनैव द्योत्यन्ते, नामन्त्रितेन । उदाहरणेषु सम्मतावनुकम्पायां कन्, इतरत्र कुत्सिते कः । रिक्तमु शून्यम्, क्षुद्रमित्यर्थः । शक्तियष्टिशब्दाभ्यां तद्वत्योः स्त्रियोर्वर्तमानाभ्यां कुत्सिते कः । एवं हि कुत्सनम्, सम्बोधनं च समीचीनं भवति । भर्त्सने त्वित्यादि । यद्यपि'भत्सेने पर्यायेण' इति वचनात्पूर्वस्यापि तत्र विधीयमानं भर्त्सनकुत्सनयोरपि सिद्ध्यति; कारणत्वेन तत्रापि कोपासूययोर्भावात्, तेतश्च नार्थः कुत्सनभत्सेनग्रहणेन ? नैतदस्ति; गुरवो हि हितैषित्वादकुप्यन्तोऽपि भर्त्सनम् । कुर्वते भर्त्स्यमानास्तु कुपितान्प्रतियन्ति तान् ॥ विनाप्यसूयया कुत्सां कुर्वन्तीति पृथक्तयोः । निर्देशः सूत्रकारेण विहितः सूक्ष्मदर्शिना ॥ सामृतैः पाणिभिर्घ्नन्ति गुरवो न विषोक्षितैः । लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः ॥ अभिप्राये दुष्टे लालनेऽपि दोषा भवन्ति, विपर्यये तु ताडनेऽपि गुणा इत्यर्थः ॥