नामन्त्रिते समानाधिकरणे सामान्यवचनम्

8-1-73 न आमन्त्रिते समानाधिकरणे सामान्यवचनम् पदस्य अनुदात्तं सर्वम् अपादादौ आमन्त्रितं पूर्वम् अविद्यमानवत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अविद्यमानवत्त्वस्य प्रतिषेधः। आमन्त्रितान्ते समानाधिकरणे परतः पूर्वमामन्त्रितान्तं सामान्यवचनं नाविद्यमानवद् भवति। किं तर्हि? विद्यमानवदेव। अग्ने॑ गृहपते (तै०सं० २.४.५.२)। माण॑वक जटिलकाध्यापक। पूर्वस्य विद्यमानवत्त्वात् परमनुदात्तमेव भवति। आमन्त्रित इति किम् ? देव॑दत्त॒ पच॑सि। समानाधिकरण इति किम्? देव॑दत्त॒ पण्ि॑डत यज्ञदत्त। अत्र यज्ञदत्तविशेषणं पण्डितशब्दः, न पूर्वेण समानाधिकरणः। सामान्यवचनमिति किम्? पर्यायेषु मा भूत्। अघ्न्ये॑ देवि॑ सर॑स्वति ईडे॑ काव्ये॑ विह॑व्ये। पर्यायशब्दा एते। एवं ह्युक्तम् — ए॒ता ते॑ अघ्न्ये॒ नामा॑नि (मा० सं० ८.४३) इति॥

Siddhanta Kaumudi

Up

विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजस्विन् । विभाषितं विशेषवचने <{SK3655}> अत्र भाष्यम् -बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा । यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नामन्त्रिते समानाधिकरणे (सामान्यवचनम्)>> - नामन्त्रिते । आमन्त्रितमविद्यमानवदित्यनुवर्तते ।॒सामान्यवचन॑मित्यनेन विशेष्यसमर्पकः शब्दो विवक्षितः । विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते । समानाधिकरणे इति तत्रान्वेति । समानमधिकरणं यस्येति विग्रहः । समानशब्द एकत्वपरः । विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह-विशेष्यमित्यादिना । हरे दयालो इति । अत्र 'दयालो' इति समानाधिकरणविशेषणे परे हरिशब्दो नाऽविद्यमानवत् । ततश्च 'दयालो' इत्यस्याऽविद्यमानवत्त्वेऽपि 'हरे' इति पदात्परत्वान्नसादेश इति भावः । अग्ने तेजस्विन्निति । इह तेजस्वि॑न्निति विशेषणे परे 'अग्ने' इत्यस्य अविद्यमानवत्त्वाऽभावात्पदात्परत्वात्तेजस्विन्नित्यस्य निघात इति भावः ।

Padamanjari

Up

द्वौ नञौ प्रकृतमर्थं सूचयत इत्याह - कि तर्हि विद्यमानवदेवेति । माणवक जटिलकाध्यापकेति । अत्र जटिलशब्दो माणवकशब्दापेक्षया विशेषवचनः, अध्यापकशब्दापेक्षया तु सामान्यवचन इति द्वयोरप्यविद्यमानवत्वं न भवति । पूर्वस्येत्यादिना प्रतिषेधस्य फलं दर्शयति । देवदतयज्ञदतेति ।'सामान्यवचनं विशेषवचनापेक्षम्' इति वक्ष्यत्युतरसूत्रे, ततश्च यथा यज्ञदतशब्दः समानाधिकरणो न भवति, एवं पूर्वामन्त्रितार्थगतविशेषाकारवचनोऽपि न भवतीति देवदतशब्दोऽपि सामान्यवचनो न भवति, तस्माद् द्व्यङ्गविकलत्वाच्चिन्त्यमेत् । एवं ह्युक्तमिति । तैतिरीयके ब्राह्मणे सहस्रतमीं प्रकृत्य इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुते - एतानि ते अघ्निये नामानीति । वृतौ त्वन्यथा पाठः शाखान्तरे द्रष्टव्यः ॥