8-1-72 आमन्त्रितं पूर्वम् अविद्यमानवत् पदस्य अनुदात्तं सर्वम् अपादादौ
आमन्त्रितं पूर्वमविद्यमानवद् भवति। तस्मिन् सति यत् कार्यं तद् न भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि? आमन्त्रिततिङ्निघात — युष्मदस्मदादेशाभावाः। देव॑दत्त॒ यज्ञ॑दत्त इत्यत्रामन्त्रितस्य पदात् परस्य ८.१.१९ इति निघातो न भवति। षाष्ठिकामन्त्रिताद्युदात्तत्वं ६.१.१९८ भवति। देव॑दत्त॒ पच॑सि इत्यत्र <<तिङ्ङतिङः>> ८.१.२८ इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमित्येवमादिषु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त प॒च॒सि॒ इत्यत्रापि <<पूजायां नानन्तरम्>> ८.१.३७ इत्येव प्रतिषेधो भवति। <<जात्वपूर्वम्>> ८.१.४७ इत्येतद् देवदत्त जातु पच॑सि इत्यत्रापि भवति। <<आहो उताहो चानन्तरम्>> ८.१.४९ इति, आहो देवदत्त पच॑सि, उताहो देवदत्त पच॑सि इत्यत्रापि भवति। <<आम एकान्तरमामन्त्रितमनन्तिके>> ८.१.५५ इति आम् भो॑ पचसि॒ देव॑दत्त इत्यत्रापि भवति। आमन्त्रितमिति किम्? देवदत्तः प॒च॒ति॒। पूर्वमिति किम्? देव॑दत्त इत्येतस्यामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद् भवति। पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देव॑दत्त॒ पच॑सि इत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव। इह इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ इति गङ्गेशब्दः पूर्वमामन्त्रितम् ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वाद् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति॥
स्पष्टम् । अग्ने॒ तव॒ … । देवास्मान्पाहि । अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥
<<आमन्त्रितं पूर्वमविद्यमानवत्>> - आमन्त्रितं पूर्वम् । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः ।अग्ने तेवेति ।अग्ने तव श्रवो वयः॑ इत्यृचि 'अग्ने' इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दोऽविद्यमानवत् ।अग्ने नये॑त्यृचि 'अग्ने' इत्यविद्यमानवत् ।अग्न इन्द्र वरुणे॑त्यृचि 'अग्ने' इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा ।अग्ने नये॑त्यत्रनये॑ति तिङन्तस्य 'तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः । इह च 'अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तुआमन्त्रितस्य चे॑ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः । इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात् । ननुसर्वदा रक्ष देव नः॑ इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह — सर्वदेति ।लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॒॑प्रतापरूद्र!ते ख्याति॑रित्यादौ तु 'ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात् । एवमिति ।इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया॑ इति मन्त्रे सर्वेषां निघात इत्यन्वयः ।आमन्त्रितस्य चे॑त्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि — यमुने इत्यादिभ्यप्राचीनानामिति । इति आदिर्येशामिति विग्रहः । आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । 'यमुने' 'सरस्वति' 'शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां 'गङ्गे' 'यमुने' 'सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः । शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात् ।आमन्त्रितस्य चे॑त्यत्रपदस्य,पदात्,अनुदात्तं सर्वमपादादौ॑ इत्यनुवृत्तेः॑ 'इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु 'गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह — आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच 'इत्यादिभ्य' इतिसर्वेषा॑मिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषुयमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी॑ति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयं च निघातः पदकाले स्पष्टं श्रूयते ।
किमदमविद्यमानवत् ? इत्याह - तस्मिन्सतीत्यादि । तत्र तस्मिन्सति यत्कार्यं तन्न भवतीत्यत्रोदाहरणमाह - आमन्त्रिततिडनिघातेति । असति च यत्कार्यं तद्भवतीत्यत्रोदाहरणमाह - पूजायामित्यादि । आमन्त्रिताद्यौदातत्वे कर्तव्ये इति । असति पूर्वग्रहणे ठामन्त्रितमविद्यमानवत्ऽ त्युच्यमाने स्वस्याद्यौदातत्वेऽपि षाष्ठिके कर्तव्येऽविद्यमानवत् स्यात्, क इदानीं तस्यावकाशः ? यत्राविद्यमानवद्भावः प्रतिषिध्यते, विकल्प्यते वा; तथा ठपादादौऽ वित्यधिकारात्पादादिरप्यवकाशः - उषो नो अधषु हवा व्युच्छनन्, नस्भावो ह्यत्राविद्यमानवद्भावादेव भवति; इन्द्र त्वा वृषभं वयम्, त्वादेशो भवति । एवं तु इन्द्र पिब तुल्यं सुतो मदाय, इन्द्र पिब वृषभूतस्य वृष्णः, अग्ने याहि शस्त्रिभिः, वायो याहि शिवादिव - इत्यादौ तिङ्निघातः प्राप्नोति ? कर्तव्योऽत्र यत्नः, उक्तं हि पुरस्तात् - ठापादपरिसमाप्तेरपादादावित्यधिकारःऽ इति । यदि ठामन्त्रितं पूर्वमविद्यमानवत्ऽ देवदत पचसीत्यत्र पचसीत्येतदपेक्षवा देवदतशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवत्वे सति आमन्त्रिताद्यौदातत्वं न स्यादित्यत आह - पूर्वत्वं चेति । पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रति पूर्वत्वं तत्कार्यं प्रत्येवाविद्यमानवत्वम्, न स्वकार्यं प्रति; तेन नायं दोष इत्यर्थः । कार्यशब्देनैतद्दर्शयति - अविद्यमानवत् कार्यमत्रातिदिश्यते । तत्र पूर्वशब्दस्य सम्बन्धिशब्दत्वेन परस्य कार्ये कर्तव्य इत्येतावदाश्रीयते, न तु परं प्रत्यविद्यमानवत्; पूर्वं तु प्रति विद्यमानवदित्यर्थ इति स्यात् । इमं मे गङ्गे यमुने सरस्वतीत्यत्र गङ्गेशब्दस्य यमुनेशब्दं प्रत्येवाविद्यमानवत्वं न मेशब्दं प्रतीति व्यवधानाद् यमुनेशब्दस्य निघातं प्रति मेशब्दो निमितं न स्यात् । यथोपदर्शिते त्वर्थे, परस्य कार्ये कर्तव्ये इत्येतावतत्कार्यं स्वनिमितमन्यनिमितं वेति विशेषाभावाद् मेशब्दापेक्षेऽपि निघाते गङ्गेशब्दस्याविद्यमानवत्वं सिध्यति । तदेतत् स्वनिमितेऽन्यनिमिते चेत्यत्र सूचितम् । तदेवमुक्तं दर्शयति - इहेत्यादि । गङ्गेशब्दोऽविद्यमानवत्वात्स्वयं निमितं न भवतीत्वेतावत्, न तु मेशब्दस्य निमितभावं प्रतिबध्नातीत्यर्थः । परं प्रत्यविद्यमानवद्भवतीत्याश्रीयमाणे हि तथा स्यात् । ननु वत्करणमन्तरेणापि'गोतो णित्' इत्यादावतिदेशो दृश्यते, तत्किमत्र वत्करणेन ? नन्वसति वत्करणे'पूर्वमामन्त्रितमविद्यमानम्' इत्युच्यमाने पूर्वस्यामन्त्रतस्य निवृत्तिः स्यात् ? नैष दोषः; अर्थप्रत्ययनाय शब्दप्रयोगादनिवृतेऽर्थे शब्दनिवृत्यभावात् । अथापि परप्रयोगो भवतु, पूर्वप्रयोगो मा भूदित्यर्थः कल्पेत ? तथापि राजदन्तादिषु परमामन्त्रितं वेति वक्तव्यं स्यात् । परमेवामन्त्रितं भवति, न पूर्वमित्यर्थः । तदेवमन्तरेणापि वतिमतिदेशः सिद्धः ? इदं तर्हि प्रयोजनम् - स्वाश्रयमपि यथा स्यात् - आं बो देवदत ठाम एकान्तरमामन्त्रितमनन्तिकेऽ इत्येकान्तरता यथा स्यात् । एकवचनान्तं ह्युतरसूत्रस्य विषयः, बहुवचनान्ते तु'विभाषितं विशेषवचने बहुवचनम्' इति पक्षे निघातप्रसङ्गः । यद्यप्यतिदेशिककार्याविरुद्धं स्वाश्रयमतिदेशेप्यवसत्यपि वत्करणे भवति, इह तु वत्करणाद्यत्नाद्विरुद्धमपि क्वचित्प्राप्यते । अविद्यमानवत्वविरोधिनी ह्यएकान्तरता । व्याख्यानाच्चातिप्रसङ्गो नोद्भावनीयः ॥