8-1-69 कुत्सने च सुपि अगोत्रादौ पदस्य पदात् अनुदात्तं सर्वम् अपादादौ सगतिः अपि तिङ्
पदादिति निवृत्तम्। सगतिरपि तिङिति वर्तते। कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङ् अगतिरप्यनुदात्तो भवति। प॒च॒ति॒ पूति। प्र॒प॒च॒ति॒ पूति। प॒च॒ति॒ मिथ्या। प्र॒प॒च॒ति॒ मिथ्या। कुत्सन इति किम्? पच॑ति शोभनम्। सुपीति किम्? पच॑ति क्लिश््नाति। अगोत्रादाविति किम्? पच॑ति गोत्रम्। पच॑ति ब्रुवम्। पच॑ति प्रवचनम्॥ क्रियाकुत्सन इति वक्तव्यम्॥ कर्तुः कुत्सने मा भूत्। पच॑ति पूतिर्देवदत्तः। प्रप॑चति पूतिः॥ पूतिश्चानुबन्धो भवतीति वक्तव्यम्॥ तेनायं चकारानुबन्धकत्वादन्तोदात्तो भवति॥ विभाषितं चापि बह्वर्थमनुदात्तं भवतीति वक्ततव्यम्॥ प॒च॒न्ति॒ पू॒तिः, पच॑न्ति॒ पूतिः॑। प्र॒प॒च॒न्ति॒ पू॒तिः, प्रप॑चन्ति॒ पूतिः॑।
सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति चोक्तार्थम्।
पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम्॥
कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः ।<!पूतिश्चानुबन्ध इति वाच्यम् !> (वार्तिकम्) ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ।<!वा बह्वर्थमनुदात्तमिति वाच्यम् !> (वार्तिकम्) ॥ पचन्ति पूति ॥
पचति क्लिश्नातीति । कथमत्र समानवाक्यत्वं सामर्थ्यं चेति चिन्त्यम् । कर्तुः कुत्सने मा भूत्, पचति पूतीति । कर्तृत्वमत्र कुत्स्यते - अस्येदमयुक्तमिति । क्रिया तु शोभनैव, तत्र कर्तृत्वस्य विशेषणं पूतित्वं न कर्त्रा समानाधिकरणमिति दारुणमभिरूपकमित्यादिवन्नपुंसकत्वम् । एवं द्विबह्वोरप्येकवचनमेव भवति - पचतः पूति, पचन्ति पूतीति । प्रायेण पूतिरिति पुंल्लिङ्गं पठ।ल्ते । ननु क्रियाप्रधानेऽस्मिन्नाख्याते साधनं कथं विशेषणेन सम्बन्धमप्रधानं पठ।लेत ? उच्यते; एकार्थीभावमापन्नं वृतौ यदुपसर्जनम् । विशेषणेन सम्बन्धस्तस्य नैवोपपद्यते ॥ न हि भवति - ऋद्धस्य राजपुरुष इति । यस्य तु नैकार्थीभावस्तदप्रधानमपि विशेषणेन संयुज्यते, यथा - ऋद्धस्य राज्ञः पुरुष इति । एवं साधनं क्रियां प्रति गुणभूतमप्येकार्थीभावाद्विशेषणेन युज्यते, तथा साधनप्रधानेषु कृदन्तेषु क्रिया गुणभूताऽपि विशेषणेन युज्यते - दारुणमध्यायक इति । यथैव तहि साधनस्य विशेषणेन योगः, एवं क्रियान्तरेणापि प्राप्नोति - पचति पठति, पचति दृश्यति, पाचकः पठति, पाचकः पश्यतीतिवत् ? किं कुर्मः, न तावदेवं दृश्यते ! तदेतदेवं प्रतिपतव्यम् - भार्या स्त्र्यन्तरसम्बन्धं पत्युर्न सहते यथा । स्नानादिकं तु संस्कारं स्वार्थमेवानुमन्यते ॥ तथा क्रियापि - विशेषणेन सम्बन्धं कर्तुः स्वस्यानुमन्यते । स्वानुरक्तं तु कर्तारं न क्रियान्तरगामिनम् ॥ इति । पूतिश्चेति । तिबन्तः पूतिशब्द आद्यौदातः । वसेस्तिबिति । तिब् बाहुलकात्पूञोऽपि भवति, बाहुलकादेव गुणाभावः । तस्य निघातनिमितस्यान्तोदातत्वं यथा स्यादिति चित्वमुपसङ्ख्यायते । विभाषितमिति । बह्वथ तिङ्न्तं विभाषा निहन्यते, यदा निहन्यते तदा पूतिरन्तोदातः । क्रियाकुत्सने इत्यादि यदुक्तम्, तत्र प्रमाणत्वेन भाष्यपठितामार्यां पठति - सुपि कुत्सन इति । मलोप इष्टोऽतिङ् चोक्तार्थिमिति । भाष्ये तावदयमर्थः । मलोपश्चेति वार्तिककारेणोक्ते मलोपस्तीङ् नेष्टः - दारुणं पचतीति । इत्येवं मलोपश्चेति वाक्यमुक्तार्थमाचार्यैरिति । वृतौ तु श्लोकान्तर्गतत्वादयं पादः पठितो न त्वत्रास्योपयोगः कश्चित्;'समासे चैतदनुदातत्वमिष्यते' इत्युक्तत्वात् ॥