8-1-6 प्रसमुपोदः पादपूरणे सर्वस्य द्वे
प्र सम् उप उद् इत्येतेषां पादपूरणे द्वे भवतः, द्विर्वचनेन चेत् पादः पूर्यते। प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ (ऋ० ७.८.४)। संस॒मिद्यु॑वसे वृष॒न् (ऋ० १०.१९१.१)। उपो॑प मे॒ परा॑ मृश॒ (ऋ० १.१२६.७)। किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ (ऋ० ४.२१.९)। पादपूरण इति किम् ? प्र दे॒वं दे॒व्या धि॒या (ऋ० १०.१७६.२)। सामर्थ्यात् छन्दस्येवैतद् विधानम्। भाषायामनर्थकं स्यात् प्रयोगाभावात्॥
एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ॥