8-1-67 पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ क्षियायाम्
पूजनवचनेभ्यः काष्ठादिभ्य उत्तरपदं पूजितमनुदात्तं भवति। काष्ठ — काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण — दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र — अमातापुत्राध्यापकः। अयुत — अयुताभिरूपकः। अयुताध्यापकः। अद्भुत — अद्भुताध्यापकः। अनुक्त — अनुक्ताध्यापकः। भृश — भृशाध्यापकः। घोर — घोराध्यापकः। परम — परमाध्यापकः। सु — स्वध्यापकः। अति — अत्यध्यापकः॥ मलोपश्च॥ इति वार्त्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे चैतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणमध्यापक इत्येवमादिषु न भवति। मलोपश्चेत्यनेनाप्ययमेव विषय आख्यायते। यत्र विभक्तेरभावाद् मकारो न श्रूयते, तत्रानुदात्तत्वमिति। असमासे हि मलोपो नैवेष्यते। दारुणमधीते दारुणमध्यापक इति। पूजनादित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थम्। एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयत इति। तथा च <<यद्वृत्तान्नित्यम्>> ८.१.६६ इत्यत्रोदाहृतम्। अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥
पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः ।<!मलोपश्च वक्तव्यः !> (वार्तिकम्) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥
'काष्ठादिभ्यः' इति वार्तिके दृष्ट्ंअ सूत्रावयवत्वेन पठितत्वातदनुरोधेन पूजनादित्येकवचनं बहुवचनस्थान इति व्याचष्टे - पूजनेभ्यः काष्ठादिभ्य इति । उतरपदमिति । उतरसूत्रे तिङ्ग्रहणादस्य च सूत्रस्य समासविषयत्वात्सुबन्तमिति द्रष्टव्यम् । काष्ठादयश्चैतेऽद्भुतपर्यायाः पूजनवचना भवन्ति, तत्र येषां वृत्तिविषय एवाद्भुतपर्यायत्वममातापुत्रादीनां तेप्वन्यपदेन विग्रहः । काष्ठाध्यापक इति क्रियाविशेषणम् । काष्ठशब्दो द्वितीयान्तः समस्यते । कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणेपु न भवति, धात्वर्थं प्रति यत्कर्म तत्रैव षष्ठीः, कर्तृपदेन साहचर्यात् । यो हि धात्वर्थं प्रति कर्ता तत्र षष्ठी, तत्साहचर्यात् कर्मापि तादृशमेव गृह्यते । विशेषणं तु धात्वर्थेन समानाधिकरणत्वान्न तं प्रति कर्म । सर्वथा क्रियाविशेषणान्न षष्ठी भवति, अत एव मलोप इति वक्ष्यते । षष्ठ।लं सत्यां मकाराभावादनुपपन्नमेततस्यात् । कथं पुनः कर्तृप्रधाने कृदन्ते गुणभूतायाः क्रियाया विशेषणेन सम्बन्धः, साधनसम्बन्धवदुपपद्यते; तद्यथा - ग्रामं गत इत्यादौ गुणभूताया अपि क्रियायाः साधनेन योगः, तथा विशेषणेनापि नानुपपन्नः । काष्ठाभिरूपक इति । आभिरूप्यं काष्ठेन विशेष्यत इति नपुंसकप्रथमान्तस्य समासः । एवं सर्वत्र प्रवृत्तिनिमितमात्रेण काष्ठादीनामन्वयाद् द्रव्यवाचिभिः सामानाधिकरण्याभावात् मयूरव्यंसकादित्वमाश्रितम् । समासे चेत्यादि । चकारोऽवधारणे, यदि समासे एवैतदिष्यते, कथं वार्तिककारेणोक्तम् - पूजितस्यानुदातत्वे काष्ठादिग्रहणं मलोपश्चेति; न हि समासे तेषामन्त्यो मकारः सम्भवति, विभक्तेर्लुप्तत्वात् ? इत्यत आह - मलोपश्चेत्यनेनापीति । कथं पुरथं विषयोऽनेनाख्यायते ? अत आह - यत्रेति । समासे हि विभक्तेरभावान्मकारो न श्रूयते अयमेव लोप इति । किं पुनः कारणमेवं काशकुशावलम्बनेन वातिकं व्याख्यायते ? अत आह - असमासे हीति । अन्ये त्वाहुः - यदि समास एवैतदभिमतमभविष्यत्'समासे' इत्येवावक्ष्यत्; मलोपवचनातु वाक्यविषयमेवैतत् । दारुणमध्यापक इत्यादिकं तु रूपं यदीष्यते विकल्पेन मलोपो वक्तव्य इति । पूजनादित्येव पूजितपरिग्रहे सिद्ध इति । पूजनस्य पूजतापेक्षत्वादिति भावः । अनन्तरपूजितप्रतिपत्यर्थमिति ।'पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्य विशेषाणां विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्गः ? इत्याह - एतदेवेति । ज्ञापनस्य प्रयोजनमाह - तथा चेति । अनुदात इति वर्तमान इत्यादि । प्रकृतं ह्यनुदातग्रहणम्'न लुट्' इत्यादिना प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृतौ प्रतिषेधोऽप्यनुवर्तेत । तत्र यद्यप्यस्य योगस्य समासविषयत्वातादृशो विषयो न सम्भवति, यत्रामन्त्रितादौ निघातः प्रतिषिध्यते; तथापि'कुत्सने च सुपि' इत्यादौ उतरत्र प्रतिषेध एव स्यात् । तस्मातन्निवृत्यर्थं पुनरनुदातग्रहणम् ॥