यद्वृत्तान्नित्यम्

8-1-66 यद्वृत्तात् नित्यम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ क्षियायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रथमा छन्दसीति च निवृत्तम्। निघातप्रतिषेध इत्येव। यदो वृत्तं यद्वृत्तम्। यत्र पदे यच्छब्दो वर्तते तत् सर्वं यद्वृत्तम्। इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् डतरडतमौ च प्रत्ययौ इत्येतद् नाश्रीयते। तस्माद् यद्वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम्। यो भु॒ङ्क्ते। यं भो॒जय॑ति। येन भु॒ङ्क्ते। यस्मै ददा॑ति। यत्का॑मास्ते जु॒हु॒मः (ऋ०१०.१२१.१०)। य॒द्रिय॑ङ् वा॒युर्वाति॑ (तै०सं० ५.५.१.१)। यद्वायुः पव॑ते। पञ्चमीनिर्देशेऽप्यत्र व्यवहिते कार्यमिष्यते॥ याथाकाम्ये वेति वक्तव्यम्॥ यत्र क्व चन यज॑न्ते॥

Siddhanta Kaumudi

Up

यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुङ्क्ते यदद्यङ्वायुर्वाति । अत्र व्यवहिते कार्यमिष्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'किंवृतं च चिदुतरम्' इत्यत्र किंवृतशब्दस्य दर्शिता व्युत्पत्तिरिहानुगन्तव्या । एतन्नाश्रीयत इति । तदाश्रयणे हि यद्र।ल्ङ्, यदीयम्, यादायनिरित्यादिभ्यः परस्य न स्यात् । जुहुम इति । प्रत्ययस्वरेणान्तोदातमेतत्, ठभ्यस्तानामादिःऽ,'भीह्रीभृहुमद' इति चोभयत्रापि अचीति वर्तते । यद्र।ल्ङिति । यदञ्चति, क्विन्,'विष्वग्देवयोश्च' इति टेरद्र।लदेशः । कथं पुनः पञ्चमीनिर्द्देशे सति यत्कामास्ते, यद्र।ल्ङ् वायुरित्यादौ व्यवधाने भवति ? अत आह - पञ्चमीनिर्देशेऽप्यत्रेति । एतच्चोतरसूत्रे ज्ञापयिष्यते । याथाकाम्ये वेति । याथाकाम्यमु यथेच्छप्रवृत्तिः, देशकालानपेक्षा, तत्र गम्यमाने वा निघातप्रतिषेधः, यत्र क्वचन यजते ॥