एकान्याभ्यां समर्थाभ्याम्

8-1-65 एकान्याभ्यां समर्थाभ्याम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम् विभाषा च्छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयूनाम् (शौ०सं० ८.९.१३)। जिन्वतीत्येतत् पक्षे न निहन्यते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति (ऋ० १.१६४.२०)। अत्तीत्येतत् पक्षे न निहन्यते। समर्थाभ्यामिति किम्? एको देवानुपा॒ति॒ष्ठ॒त्। एक इति संख्यापदमेतद् अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य ॥

Siddhanta Kaumudi

Up

आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङ्न्तेन असम्भवात् । तिङ्न्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति,'चवायोगे प्रथमा' इत्यतो योगग्रहणानुवृतेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् । एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वातस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि ठेको गोत्रेऽ इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति'निपातैर्यद्यदिहन्त' इत्यत्रावोचाम ॥