8-1-64 वैवाव इति च च्छन्दसि पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम् विभाषा
वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। अह॑र्वै दे॒वाना॒मासी॒द् रात्रि॒रसु॑राणा॒म् (तै०सं० १.५.९.२)। बृह॒स्पति॑र्वै दे॒वानां॑ पु॒रोहि॑त आसी॒त् शण्डा॒मर्का॒वसु॑राणा॒म् (तै०सं० ६.४.१०.१)। वाव — अ॒यं वाव हस्त॒ आसी॑त् (काठ० सं० ३६.७)। नेतर आ॒सी॒त्॥
अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ॥