चादिलोपे विभाषा

8-1-63 चादिलोपे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम्

Kashika

Up

index: 8.1.63 sutra: चादिलोपे विभाषा


चादयः, न चवाहाहैवयुक्ते 8.1.24 इति सूत्रनिर्दिष्टा गृह्यन्ते। तेषां लोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति विभाषा। चलोपे शुक्ला व्रीहयो भवन्ति, भवन्ति, अवेता गा आज्याय दुहन्ति। भवन्ति इत्येतद् विकल्पेन न निहन्यते। वालोपे व्रीहिभिर्यजेत, यजेत, यवैर्यजेत। एवं शेषेष्वपि यथादर्शनमुदाहार्यम्।

Siddhanta Kaumudi

Up

index: 8.1.63 sutra: चादिलोपे विभाषा


चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ।

Padamanjari

Up

index: 8.1.63 sutra: चादिलोपे विभाषा


पूर्वो योग एवशब्दप्रयोगे नित्यार्थः ॥