8-1-62 चाहलोप एव इति अवधारणम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम्
चलोपेऽहलोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति, एवेत्येतत् चेदवधारणार्थं प्रयुज्यते। क्व चास्य लोपः? यत्र गम्यते चार्थो न च प्रयुज्यते, तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, अहशब्दः केवलार्थ इति समानकर्तृके चलोपः, नानाकर्तृकेऽहलोपः। चलोपे — देवदत्त एव ग्रामं गच्छ॑तु, स देवदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं चारण्यं च गच्छत्वित्यर्थः। अहलोपे — देवदत्त एव ग्रामं गच्छ॑तु, यज्ञदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं केवलम्, अरण्यं केवलमित्यर्थः। अवधारणमिति किम्? देवदत्तः क्वेव भो॒क्ष्य॒ते॒। अनवक्ऌप्तावयमेवशब्दः। न क्वचिद् भोक्ष्यत इत्यर्थः। <<एवे चानियोगे>> (६.१.९४ वा०) इति पररूपम्॥
च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवकॢप्तावेव ॥
उदाहरणे चलोपं दर्शयति - ग्रामं चेति । एवमहलोपेऽपि द्रष्टव्यम् । तत्र प्रथमे ग्राम कर्मकस्यारण्यकर्मकस्य च देवदत एव कर्तेति समानकर्तृकत्वम्, द्वितीये तु विपर्ययान्नानाकर्तृकता द्रष्टव्या । अनवकॢप्तिः उ असम्भवनम् । यो हि देवदतस्य भोजनं क्वचिदपि न सम्भावयति, स एवं प्रयुङ्क्ते - क्वेव भोक्ष्यस इति । ठेवे चानियोगेऽ इति पररूपत्वम् । क्वचितु वृतावेवैतत् पठ।ल्ते ॥