8-1-61 अह इति विनियोगे च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा क्षियायाम्
अह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दात् क्षियायां च। नानाप्रयोजनो नियोगो विनियोगः। त्वमह ग्रामं गच्छ॑, त्वमहारण्यं ग॒च्छ॒। क्षियायाम् — स्वयमह रथेन याति॑३, उपाध्यायं पदातिं ग॒म॒य॒ति॒। स्वयमहौदनं भुङ्क्ते॑३, उपाध्यायं सक्तून् पा॒य॒य॒ति॒। पूर्ववद् निघातप्रतिषेधः, प्लुतश्च॥
अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ॥
नानाप्रयोजन इति । अनेक प्रयोजनो नियोगः उ प्रेषणम् । प्लुतश्चेति । स पुनः क्षियायां क्षियाहेतुकः, विनियोगे प्रैषहेतुकः ॥