8-1-60 ह इति क्षियायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ प्रथमा
ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति॑३, उपाध्यायं पदातिं ग॒म॒य॒ति॒। स्वयं हौदनं भु॒ङ्क्ते॑३, उपाध्यायं सक्तून् पा॒य॒य॒ति॒। प्रथमस्य तिङन्तस्यात्र निघातः प्रतिषिध्यते। <<क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्>> ८.२.१०४ इति च प्लुतो भवति॥
हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-<{SK3623}> इति प्लुतः ॥
आचारभेदः उ आचारोल्लङ्घनम् । उदाहरणे - उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनं प्रतिषिद्धम् - इत्याचारभेदः ॥