8-1-59 चवायोगे प्रथमा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
अगतेरिति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते। च वा इत्येताभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति। गर्दभांश्च का॒लय॑ति, वीणां च वा॒द॒य॒ति॒। गर्दभान् वा का॒लय॑ति, वीणां वा वा॒द॒य॒ति॒। योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यादिति। प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूदिति। चवायोगे हि द्विसमुच्चये विकल्पे च सति भवति। स चानेकस्य धर्म इति॥
चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥
अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम् - प्रथमस्यात्र तिङ्न्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह - प्रथमा तिङ्विभक्तिरिति । प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह - चवायोगो हीति ॥