चादिषु च

8-1-58 चादिषु च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अगतेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति। चादयो <<न चवाहाहैवयुक्ते>> ८.१.२४ इत्यत्र ये निर्दिष्टाः, त इह परिगृह्यन्ते। चशब्दे तावत् — देवदत्तः पच॑ति च, खाद॑ति च। वा — देवदत्तः पच॑ति वा, खाद॑ति वा। ह — देवदत्तः पच॑ति ह, खाद॑ति ह। अह — देवदत्तः पच॑त्यह, खाद॑त्यह। एव — देवदत्तः पच॑त्येव,खाद॑त्येव। अगतेरित्येवदेवदत्तः प्र॒पच॑ति च, प्र॒खाद॑ति च। प्रथमस्यात्र तिङन्तस्य <<चवायोगे प्रथमा>> ८.१.५९ इति निघातः प्रतिषिध्यत एव, परं तु निहन्यते॥

Siddhanta Kaumudi

Up

चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे <{SK3966}> इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

त इह गृह्यन्त इति । प्रत्यासतेः ।'चादयो' सत्वेऽ इत्यत्र येषां ग्रहणं ते विप्रकृष्टः ।'समुच्चयो विकल्पश्चानेकस्य धर्मः' इत्युतरसूत्रे वक्ष्यति, अतः खादति चेत्यस्योपन्यासः । न त्वस्य निघातप्रसङ्गः; नानावाक्यत्वात् । खादति हेत्यादेस्तु प्रक्रमाभेदायोपन्यासः । परंतु निहन्यत एवेति । प्रशब्दात्समानवाक्यगतात् पदात्परत्वात् ॥