यद्धितुपरं छन्दसि

8-1-56 यद्धितुपरं छन्दसि पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.56 sutra: यद्धितुपरं छन्दसि


आमन्त्रितम् इत्येतदस्वरितत्वान् नानुवर्तते। तिङिति वर्तते एव। यत्परं, हिपरं, तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति। यत्परं तावत् गवां गोत्रमुदसृजो यदङ्गिरः। हिपरम् इन्दवो वामुशन्ति हि तुपरमाख्यास्यामि तु ते। निपातैर्यद्यदिहन्त इति, हि च 8.1.34 इति, तुपश्यपश्यताहैः इति च निघातप्रतिषेधे सिद्धे वचनम् इदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैः इति। इह न भवति, जाये स्वो रोहावैहि। एहि इत्यनेन गत्यर्थलोटा युक्तस्य रोहाव इत्यस्य लोडन्तस्य हिघातो भवत्येव।

Siddhanta Kaumudi

Up

index: 8.1.56 sutra: यद्धितुपरं छन्दसि


तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-<{SK3937}>इति हिच <{SK3941}> इति तुपश्य-<{SK3946}> इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ।

Padamanjari

Up

index: 8.1.56 sutra: यद्धितुपरं छन्दसि


जाये स्वो रोहावैहीति । रुहेर्लोट्, वस्, शप्, ठाडुतमस्य पिच्चऽ,'लोटो लङ्वत्' इति लङ्वद्भावात्'नित्यं ङ्तिः' इति सलोपः, आह्पूर्वादिणो लोट्, सिपो हिः, एहीत्यनेन परभूतेन युक्तस्य रोहावेत्यस्य'लोट् च ' इति प्राप्तो निघातप्रतिषेधो नियमेन निवर्त्यते, तेन स्वशब्दाश्रयो निघातो भवति । ननु'परमपि च्छन्दसि' इति वचनात् स्वः शब्दस्य पूर्वाङ्गवद्भावज्जायेस्वरित्यामन्त्रितम्, ततश्च ठामन्त्रित पूर्वमविद्यमानवत्ऽ इत्यविद्यमानत्वान्निघातो न प्राप्नोति, प्रतिषिध्यतेऽत्राङ्गवद्भावः - अव्ययानां प्रतिषेध इति ? नैवम्; अत्राङ्गवद्भावः प्राप्नोति, उक्तं हि तत्र -'षष्ठ।लमन्त्रितकारकवचनम्' 'तन्निमितग्रहणं च' इति । न हि स्वः शब्दः षष्ठ।ल्न्त आमन्त्रितकारकं तन्निमितं वा स्वरे वाङ्गवद्भावो नाविद्यमानवत्वम् । स्वः शब्दस्य रो रिऽ इति लोपो न भवति, उत्वं च भवति; छान्दसत्वात् । अथेदानीं रोहावेत्यनेन युक्तस्य एहीत्यस्य'लोट् च' इति निघातप्रतिषेधः कस्मान्न भवति, न रुहिर्गत्यर्थः,'गत्यर्थाकर्मक' इत्यत्र पृथग्ग्रहणात् ? यदि न गत्यर्थः, आरोहन्ति हस्तिनं मनुष्याः आरोहयति हस्ती मनुष्यान्,'गतिबुद्धिप्रत्यवसानार्थ' इति कर्मसंज्ञा न प्राप्नोति । तस्मादुपरिगमनरूपव्यापारो रुहेरर्थः ।'गत्यर्थाकर्मक' इत्यत्र च रुहिग्रहणं प्रपञ्चार्थम् । एहीत्यस्य तु निघातप्रतिषेधो न भवति;'विभाषित सोपसर्गमनुतमम्' इति वचनात् ॥