8-1-55 आम एकान्तरम् आमन्त्रितम् अनन्तिके पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
आम उत्तरमेकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति। आम् पचसि देव॑द॒त्त३। आम् भो॒ देव॑द॒त्त३। भो इत्यामन्त्रितान्तमपि <<नामन्त्रिते समानाधिकरणे सामान्यवचनम्>> ८.१.७३ इति नाविद्यमानवद् भवति। आम इति किम्? शाकं पचसि दे॒व॒द॒त्त३। एकान्तरमिति किम्? आम् प्रपचसि दे॒व॒द॒त्त३। आमन्त्रितमिति किम्? आम् देवदत्तः प॒च॒ति॒। अनन्तिक इति किम्? आम् पचसि दे॒व॒द॒त्त॒। आम एकान्तरमामन्त्रितं यत् तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते। तदुभयमनेन क्रियत इति केचिदाहुः। प्लुतोदात्तः पुनरसिद्धत्वाद् न प्रतिषिध्यते। अपरेषां दर्शनम् — अनन्तिक इत्यनेन यद् न दूरं न सन्निकृष्टं तत् परिगृह्यते, तेनास्मिन्नेकश्रेतुः। प्राप्तिरेव नास्ति, प्लुतोदात्तोऽपि नोदाहर्तव्य इति॥
आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ॥
अन्तरयतीत्यन्तरमु व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम्, उदाहरणे निघाते प्रतिषिद्धे षाष्ठिकमाद्यौदातत्वम्,'दूराद्धूते च' इति प्लुतः; भवच्छब्दस्य'विभाषा भवद्भगवदघवताम्' इति रुत्वम्, अवशब्दस्य च ओकारः,'भोभगो' इत्यादिना यत्वम्, तस्य'हलि सर्वेषाम्' इति लोपः । ननु च ठामन्त्रितं पूर्वमविद्यमानवत्ऽ इति भोः शब्दस्याविद्यमानत्वादेकान्तरता नोपपद्यते ? अत आह - भो इत्येतदिति । तदुभयमप्यनेन क्रियत इति । कथं पुनरप्रकृताया असंशब्दितायाश्चैकश्रुतेः प्रतिषेधः शक्यो विज्ञातुम् ? उच्यते; नञत्र विपक्षवचनः, अधर्मानृतादिवत्, अन्तिकविरुद्धमनन्तिकम्, दूरमित्यर्थः, तत्र चैकश्रुतिरुच्यते, ततश्च पचसि देवदतेत्यादावन्तिके सावकाशमामन्त्रितनिघातं बाधित्वा एकश्रुतिः प्राप्नोति, सा तावत्प्रतिषिद्ध्यते, ततोऽपवादे प्रतिषिद्ध उत्सर्गभूतो निघातः प्राप्नोति, सोऽपि प्रतिषिध्यते, एकश्रुतिमात्रप्रतिषेधे हि तत्रैवायं ब्रूयात् - नाम एकान्तरमिति । एवं हि ठामन्त्रितमनन्तिकेऽ इति च न वक्तव्यं भवति, सोऽयमेवं सिद्धे यन्निघातप्रकरणे इदं ब्रवीति तेन विजानीमः - निघातोऽपि प्रतिषिध्यत इति । केवलस्य निघातस्येकश्रुत्या बाधितस्य प्रतिषेधोऽनर्थक इति सामर्थ्यादुभयोः प्रतिषेधः । ननु चैकश्रुतिरपि देवदता3 आगच्छेत्यादौ सावकाशा कथमां भो देवदत इत्यादौ निघातस्य बाधिका, प्रत्युत परत्वादेकश्रुतेर्निघात एव बाधक इति तस्यैवात्र प्रसङ्ग इति प्रतिषेधोऽपि तस्यैव न्याय्यः, तस्य च प्रतिषेधे एकश्रुतिः स्यादेव ? अत्राहुः - पदद्वयमात्रनिबन्धनत्वादन्तरङ्गो निघातः पूर्वं प्रवर्तते, ततो दूरात्सम्बोधनमधिकं निमितमपेक्षमाणैकश्रुतिरिति सैवानन्तरं प्राप्नोति, तां तावद्वाधते पूर्वोक्तेन न्यायेन निघातमपीति सुष्ठूअक्तम् - तदुभयमनेन क्रियत इति । यथैव तर्हि एकश्रुतिर्बाध्यते, तथैव प्लुतोदातोऽपि बाध्येत ? अत आह - प्लुतोदातः पुनरिति । अपरेषामिति । ते मन्यन्ते - सादृश्येऽत्र नञ्, न विपेक्षे; अन्यथा दूर इत्येव ब्रूयादिति प्राप्तिरेव नास्ति, अदूरत्वात् । कथं तर्हि प्लुत उदाह्रियते ? अत आह - प्लुतोऽपीति ॥