8-1-54 हन्त च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ लोट् विभाषितं सोपसर्गम् अनुत्तमम्
पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा। हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तं भवति। हन्त प्र॒वि॒श, प्रवि॑श। हन्त प्र॒शा॒धि, प्रशा॑धि। सोपसर्ग््मित्येव — हन्त कु॒रु। <<निपातैर्यद्यदिहन्त०>> ८.१.३० इति नित्यमत्र निघातप्रतिषेधो भवति। अनुत्तममित्येव — हन्त प्र॒भु॒नजा॑वहै। हन्त प्र॒भु॒नजा॑महै॥
हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि <{SK3967}> इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ॥