8-1-52 लोट् च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ गत्यर्थलोटा चेत् कारकं सर्वान्यत्
लोडन्तं तिङन्तं गत्यर्थलोटा गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। लोडन्तयोरेकं कारकं यदि भवतीत्यर्थः। आगच्छ देवदत्त, ग्रामं पश्य॑। आगच्छ विष्णुमित्र, ग्रामं शा॒धि। आगम्यतां देवदत्तेन ग्रामो दृ॒श्यतां॑ यज्ञदत्तेन। गत्यर्थानामित्येव — पच देवदत्तौदनं।भु॒ङ्क्ष्व॒ एनम्। लोटेत्येव — आगच्छेर्देवदत्त ग्रामं प॒श्य॒ एनम्। न चेत् कारकं सर्वान्यदित्येव — आगच्छ देवदत्त ग्रामं प॒श्य॒तु॒ एनं यज्ञदत्तः। सर्वग्रहणानुवृत्तेस्त्विह भवत्येव — आगच्छ देवदत्त ग्रामं त्वं चाहं च प॒श्याव॑। पृथग्योगकरणमुत्तरार्थम्॥
लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥
शाधीति । शार्सेर्लोट्, सिप्, सिपो हिः,'शा हौ' इति शादेशः, तस्यासिद्धत्वात् झल्लक्षणं धित्वम् । प्रशाधीति प्रायेण पाठः, स न युक्तः; सोपसर्गत्वेनोतरसूत्रविषयत्वात् । पृथग्योगकरणमुतरार्थमिति । उतरो विकल्पो लोट एव यथा स्यात्, लृटो मा भूदिति ॥