गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्

8-1-51 गत्यर्थलोटा लृट् न चेत् कारकं सर्वान्यत् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। यत्रैव कारके कर्तरि कर्मणि वा लोट्, तत्रैव यदि लृडपि भवतीत्यर्थः। कर्तृकर्मणी एवात्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामं द्॒रक्ष्यसि॑ एनम्। आगच्छ देवदत्त ग्राममोदनं भो॒क्ष्यसे॑। उह्यन्तां देवदत्तेन शालयः, तेनैव भो॒क्ष्यन्ते॑। उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भो॒क्ष्यन्ते॑। गत्यर्थग्रहणं किम् ? पच देवदत्तौदनं भो॒क्ष्य॒स॒ एनम्। लोटेति किम् ? आगच्छेर्देवदत्त ग्रामं द्॒रक्ष्य॒सि॒ एनम्। लृडिति किम् ? आगच्छ देवदत्त ग्रामं प॒श्य॒सि॒ एनम्। न चेत् कारकं सर्वान्यदिति किम्? आगच्छ देवदत्त ग्रामम्, पिता त ओदनं भो॒क्ष्य॒ते॒। उह्यन्तां देवदत्तेन शालयः, सक्तवस्तेन पा॒स्य॒न्ते॒। सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्र॒क्ष्याव॑ एनमित्यत्रापि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके ऽन्यस्मिन् न भवितव्यम् , इह तु यत् लोडन्तस्य कारकं तत् चान्यत् च लृडन्तेनोच्यत इति॥

Siddhanta Kaumudi

Up

गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गमिना समानार्था गत्यर्था इति । अर्थप्रदर्शनमेतत्, गतिरर्थो येषामिति तु विग्रहः, गत्यर्थलोटा युक्तमिति योगः, पुनरर्थद्वारको निमितनिमितिभावः, लोडन्तवाच्यं हि निमितं लृडन्तवाच्यस्य । न चेत्कारकं सर्वंमन्यद्भवतीति । सर्वं चेत्कारकमन्यत्, तदा निघातप्रतिषेधो न भवतीति भावः । अत्र - लोडन्ते च लृडन्ते च यावत्किञ्चन कारकम् । कृह्यएत यदा तत्सर्वं वाच्यावाच्यविवेकतः ॥ तदेहापि तर्हि प्राप्नोति - 'वह ब्राह्मण शालींस्त्वं पितैतांस्तव भोक्ष्यते' इति ? यत्र हि सर्वं भिद्यते, तत्रैव न भवितव्यम्, यथा वृतावुपन्यस्तयोः प्रत्युदाहरणयोः । न चात्र भिद्यते सर्वमभेदाच्छालिकर्मणः । अथायमर्थः स्यात् - सर्वस्मिन्कारकेऽनन्यस्मिन्नघातप्रतिषेधः, न तु क्वचिदपि भिन्न इति तदेहापि न स्यात् - आगच्छ देवदत ग्राममोदनं भोक्ष्यस इति, भिद्यते ह्यत्र कर्म, तस्माद्व्याख्येयमेतत् ? तत्राह - यत्रैवेति । एवकारेण वाच्यव्यतिरिक्तस्य निरासः, न तु सर्वस्यानन्यत्वं विवक्षितम्, तत्स्पष्टीकृतम् । कर्तृकर्मणी एवेति । एतच्च प्रत्यासतेर्लभ्यते, प्रत्यासन्नं हि ततस्य, यतेनैवाभिधीयते । उदाहरणेषु प्रथमतृतीययोः सर्वमनन्यत् । द्रक्ष्यसीत्यस्य तु निघातप्रसङ्गश्चिन्त्यः; नानावाक्यत्वात्, द्वितीयचतुर्थयोर्वाच्यमात्रं वहेर्गुणभूतगमनाभिप्रायं गत्यर्थत्वम्, प्रापणार्थस्त्वयम् । तथा च - 'नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च' । इति भेदेन गणनं कृतम् । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कथमिहाभिन्नं कारकम् ? शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वाददोषः । आगच्छेरिति । लिङ्यं न लेट् । पश्यतीति । लडयं न लृट्, प्रत्युदाहरणयोः सर्वमन्यत् । कारकशब्देनापि सूत्रे कारकव्यक्तिरेवाश्रीयते, तेन कर्तृकर्मत्वाभेदेऽपि व्यक्तिभेदात् कारकभेदः - त्वं चाहं च द्रक्ष्याव इति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यम्, इह च भिद्यते वाच्यम् - एकत्रैकम्, अपरत्र द्वयमिति निघातप्रतिषेधो न स्यात् । क्रियमाणे तु सर्वग्रहणे यथा सिध्यति, तथा दर्शयति - लृडन्तवाच्ये हीति ॥