8-1-50 शेषे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ आहो उताहो
आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति। कश्च शेषः? यदन्यदनन्तरात्। आहो देवदत्तः पच॑ति, प॒च॒ति॒। उताहो देवदत्तः पच॑ति, प॒च॒ति॒। आहो देवदत्तः पठ॑ति, प॒ठ॒ति॒। उताहो देवदत्तः पठ॑ति, प॒ठ॒ति॒॥
आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥
कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमितभूतमाहो -उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ॥