8-1-49 आहो उताहो च अनन्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अपूर्वम्
निघातप्रतिषेधोऽनुवर्तते, अपूर्वमिति च। आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति। आहो भु॒ङ्क्ते । उताहो भु॒ङ्क्ते। आहो पठ॑ति । उताहो पठ॑ति। अनन्तरमिति किम्? शेषे विभाषां ८.१.५० वक्ष्यति। अपूर्वमित्येवदेवदत्त आहो भु॒ङ्क्ते। देवदत्त उताहो भु॒ङ्क्ते॒॥
आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ॥
अपूविमित्येवेति । अत एवोताहोग्रहणम्, उतशब्दपूर्वत्वादाहोशब्दस्य ॥