8-1-48 किंवृत्तं च चिदुत्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अपूर्वम्
किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ, तत् किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तं भवति। कश्चिद् भु॒ङ्क्ते। कश्चिद् भो॒जय॑ति। कश्चिदधी॒ते। केचनित् क॒रोति॑। कस्मैचिद् ददा॑ति। कतरश्चित् क॒रोति॑। कतमश्चिद् भु॒ङ्क्ते। चिदुत्तरमिति किम् ? को भु॒ङ्क्ते। अपूर्वमित्येव — देवदत्तः किंचित् प॒ठ॒ति॒॥
अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥
वृत्तिमित्यधिकरणे क्तः, किमो वृतं किंवृतमिति, ठधिकरणवाचिनश्चऽ इति कर्तरि षष्ठी, ठधिकरणवाचिना चऽ इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्यएत - किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे - किंवृतग्रहणेनेति । चिदुतरमित्येतत्किंवृतस्य विशेषणम्, न तिङ्न्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ॥