जात्वपूर्वम्

8-1-47 जातु अपूर्वम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भो॒क्ष्यसे॑। जातु क॒रि॒ष्यामि॑। अपूर्वमिति किम्। कटं जातु क॒रि॒ष्य॒ति॒॥

Siddhanta Kaumudi

Up

अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

जात्वित्येतदपूर्वमिति । अथ तिङ्न्तविशेषणमपूर्वत्वं कस्मान्न भवति, युक्तं चैतत्, विशषणेन सम्बन्धुं योग्ये सति निमितिनि निमितस्याप्रधानस्य न हि युक्तं विशेषणम् ? उच्यते; यदयम् ठाहो उताहो चानन्तरम्ऽ इत्यत्रानन्तरग्रहणं करोति, ततो ज्ञायते - निमितस्येदं विशेषणमिति; अन्यथा तत्रापि ठपूर्वम्ऽ इत्यनुवृतेरेव केवलतिङ्न्तस्यानन्तय लभ्यत इति किं तेन ! ननु च शेषप्रकॢप्त्यर्थं तत्स्यात् -'शेषे विभाषा' , कश्च शेषः ? सान्तरः शेष इति ? अन्तरेणाप्यनन्तरग्रहणं प्रकॢप्तः शेषः । कथम् ? अपूर्वमिति प्रकृतम्, सपूर्वः शेष इति ॥