एहिमन्ये प्रहासे लृट्

8-1-46 एहिमन्ये प्रहासे लृट् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एहि मन्य इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे। प्रकृष्टो हासः प्रहासः, क्रीडा। एहि मन्य ओदनं भो॒क्ष्यसे॑, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः। एहि मन्ये रथेन या॒स्यसि॑, नहि यास्यसि, यातस्तेन ते पिता। प्रहास इति किम् ? एहि मन्यस ओदनं भो॒क्ष्य॒ इति, सुष्ठु मन्यसे, साधु मन्यसे। <<गत्यर्थलोटा लृट्०>> ८.१.५१ इत्येव सिद्धे, सत्यारम्भो नियमार्थः — एहिमन्येयुक्ते प्रहास एव यथा स्यात्, अन्यत्र मा भूदिति। एहि मन्यस ओदनं भो॒क्ष्य॒ इति। एहि मन्य इत्युत्तमोपादानमतन्त्रम्। प्रहास एव हि मन्यतेरुत्तमो विहितः, ततोऽन्यत्र मध्यम एव भवति। तत्रानेन नियमेन निवृत्तिः क्रियते — एहि मन्यस ओदनं भो॒क्ष्य॒ इति॥

Siddhanta Kaumudi

Up

एहि मन्ये इत्यनेन युक्तं लृडन्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्-<{SK3958}> इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एहिमन्य इत्यनेनेति । समुदायाभिप्रायमेकवचनम्, अन्यथा आख्याते द्वे आङ् चापर इति बहुवचनप्रसङ्गः । उदाहरणे'प्रहासे च मन्योपपदे' इत्यादिना पुरुषव्यत्ययः । सुष्ठुअ च मन्यसे इति । भूतमर्थं दर्शयन् प्रहासाभावमाह, अत एव पुरुषव्यत्ययोऽपि न कृतः । गत्यर्थलोटा लृडित्येव सिद्ध इति । आङ्पूर्वादिणो लोट्, सिपो हिः । अन्यत्र मा भूदिति । क्वान्यत्र मा भूत् ? वृत्तिकारेण यत्प्रत्युदाहृतम् -एहि मन्यस इत्यादि तत्र । कथं पुनरेहिमन्ये इत्यनेन योगनियमः क्रियमाण एहि मन्यस इत्यनेन योगनिवृत्तिं करोति ? इत्याह - उतमोपादानमतन्त्रमिति । अतन्त्रत्वे कारणमाह - प्रहास एव हीति । तन्त्रत्वे नियमस्य व्यावर्त्यं न सम्भवेदित्यर्थः । भाष्ये तु प्रत्युदाहरणेऽप्युतम एव प्रयुक्तः, तत्रायमर्थः - एहि रथेन त्वं यास्यसीत्येवमहं मन्य इति ॥