लोपे विभाषा

8-1-45 लोपे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ किं क्रियाप्रश्ने अनुपसर्गम् अप्रतिषिद्धम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व चास्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पच॑ति, आहोस्वित् पठ॑ति। विनैव किमा प्रश्नोऽवगम्यते। प्राप्तविभाषेयं किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि॥

Siddhanta Kaumudi

Up

किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रकृतत्वात्किम एव लोपो विज्ञायत इत्याह - किमो लोप इति । क्व चास्येति । शास्त्रे क्वचिदपि किमो लोपस्याविहितत्वात् प्रश्नः । न शास्त्रीयस्यैवादर्शनस्य लोपसंज्ञा, किं तर्हि ? अदर्शनमात्रस्येत्युतरम् । यत्रेति । न च प्रयुज्यत इति । अर्थप्रकरणादिना गम्यमानत्वात् । उदाहरणे आहोस्विच्छब्दः पक्षान्तरप्रश्ने, स च नान्तरेण पूर्वप्रश्नमित्यर्थात् पूर्वत्र किमर्थो गम्यते, तदाह - विनैव किमेति । प्राप्तविभाषेयमिति । कथं पुनः प्राप्तिः, यावता किंशब्देन योगेन पूर्वो योगः ? तत्राह - किमर्थेनेति । पूर्ववत्प्रत्युदाहरणानीति । तान्येव किंशब्दरहितानीत्यर्थः ॥