8-1-44 किं क्रियाप्रश्ने अनुपसर्गम् अप्रतिषिद्धम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
किमित्येतत् क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति। किं देवदत्तः पच॑ति, आहोस्विद् भु॒ङ्क्ते। किं देवदत्तः, शेते॑, आहोस्विद॒धी॒ते। अत्र केचिदाहुः — पूर्वं किंयुक्तमिति तद् न निहन्यते, उत्तरं तु न किंयुक्तमिति तद् निहन्यत एवेति। अपरे त्वाहुः — यद्यप्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इत्युभयत्र प्रतिषेधेन भवितव्यमिति। क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत् — किं देवदत्त ओदनं प॒च॒ति॒ आहोस्विच्छाकमिति। प्रश्न इति किम् ? किमधी॒ते॒ देवदत्तः। क्षेपे किंशब्दोऽयम्, न प्रश्ने। अनुपसर्गमिति किम्? किं देवदत्तः प्रप॒च॒ति॒,आहोस्वित् प्रक॒रो॒ति॒। अप्रतिषिद्धमिति किम् ? किं देवदत्तो न प॒ठ॒ति॒ आहोस्विद् न क॒रो॒ति॒॥
क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ॥
अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः । पूर्वं किंयुक्तमिति । तत्समीपे किमः श्रूयमाणत्वात् । उतरं तु न किंयुक्तमिति । विपर्ययात् । अपरे इत्यादि । न समीपे श्रूयमाणत्वं किंशब्देन सम्बन्धे हेतुः, किन्तु संशयविषयत्वम् । तच्च द्वितीयस्याप्यस्ति, अतस्तस्यापि तेन योग इत्युभयत्र प्रतिषेध इत्यर्थः । ये त्वाहुः - पूर्वं किंयुक्तमिति, ते मन्यन्ते - अस्तु द्वयोः संशयविषयत्वम्, किंशब्देन तु समीपे श्रुतक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्तु प्रश्न आहोस्विदित्यनेन, क्रियाप्रश्न इति चोच्यते, तस्मातस्यैव निघातप्रतिषेध इति ॥