नन्वित्यनुज्ञैषणायाम्

8-1-43 ननु इति अनुज्ञैषणायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवत्यनुज्ञैषणायां विषये। अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा। अनुज्ञाप्रार्थनेत्यर्थः। ननु क॒रोमि॑ भोः। ननु गच्छा॑मि भोः। अनुजानीष्व मां करणं प्रतीत्यर्थः। अनुज्ञैषणायामिति किम् ? अकार्षीः कटं देवदत्त ? ननु क॒रो॒मि॒ भोः। पृष्टप्रतिवचनमेतत्, नानुज्ञैषणा॥

Siddhanta Kaumudi

Up

नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

किंचित्कर्तु स्वयमेवोद्यौक्तस्यैवं क्रियतामित्येवं रूपोऽभ्युपगमः उ अनुज्ञा । सूत्रार्थमुदाहरणेन दर्शयति - करणं प्रतीति । उपलक्षणमेतत्, करणगमने प्रतीत्यर्थः । उदाहरणे'वर्तमाने लट्' । प्रत्युदाहरणे तु भूते'ननौ पृष्टप्रतिवचने' इत्येनेन ।ठङ्गाप्रतिलोम्येऽ इत्यादिवत् सिद्धे इतिकरण एकनिपातोऽयमिति दर्शनार्थः; अन्यथा द्वयोरपि निपातयोर्ग्रहणं सम्भाव्येत ॥