पुरा च परीप्सायाम्

8-1-42 पुरा च परीप्सायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुरा इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति। परीप्सा त्वरा। अधीष्व माणवक, पुरा विद्योत॑ते विद्युत्। पुरा स्त॒नय॑ति स्तनयित्नुः। पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति। परीप्सायामिति किम् ? नडेन स्म पुरा अधी॒य॒ते॒। अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति। ऊर्णया स्म पुरा अधी॒य॒ते॒॥

Siddhanta Kaumudi

Up

पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुराविद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः परीप्सायां किम् । न तेनस्म पुराधीयते । चिरातीतेऽत्र पुरा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पुराशब्दोऽत्र भविष्यदासति द्योतयतीति । भविष्यतो विद्योतनादेरध्ययनान्तरायभूतस्याचिरकालभावित्वं द्योतयति, तेनात्र त्वरा गम्यते इति भावः । विद्योतनादावध्ययनं धर्मशास्त्रे प्रतिषिद्धम्, अतस्तदुपन्यासेन त्वरितमधीष्वेति गम्यते इत्यर्थः । उदाहरणे'यावत्पुरानिपातयोः' इति भविष्यदर्थे लट्, प्रत्युदाहरणे'लट् स्मे' इति । अत्र भूतकालविप्रकर्षमिति । भूतस्याध्ययनस्य चिरकालप्रवृतत्वं द्योतयति । तेन नात्र त्वरा गम्यत इति भावः ॥