8-1-41 शेषे विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अहो
अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति। कश्च शेषः? यदन्यत् पूजायाः। कटमहो क॒रि॒ष्यसि॑। मम गेहमहो ए॒ष्यसि॑। असूयावचनमेतत्। पूजायामित्यस्य पूर्वत्र चानुकृष्टत्वाद् अनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम्॥
अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ॥
अशूयावचनमेतदिति । अनाश्वर्यभूतमेव वस्त्वसूयन्नाश्चर्यवत्प्रतिपादयतीत्यर्थः । शेषवचनं किम्, यावता योगविभागसामर्थ्यादेव पूर्वप्रकृतेषु किञ्चिन्नानुवर्तत इति ज्ञातम्, तत्र चानुकृष्टत्वात्'पूजायाम्' इत्येतन्निवर्तिष्यते ? अत आह - पूजायामित्यस्येति ॥