8-1-40 अहो च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ पूजायाम्
अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। अहो देवदत्तः पच॑ति शोभनम्। अहो विष्णुमित्रः क॒रोति॑ चारु। पृथग्योगकरणमुत्तरार्थम्॥
एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ॥
पृथग्योगकरणमुतरार्थमिति । उतरो योगोऽहोयोग एव यथा स्यात्, तुप्रभृतिभिर्योगे मा भूत् ॥