8-1-39 तुपश्यपश्यताहैः पूजायाम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु — माणवकस्तु भु॒ङ्क्ते शोभनम्। पश्य — पश्य माणवको भु॒ङ्क्ते शोभनम्। पश्यत — पश्यत, माणवको भु॒ङ्क्ते शोभनम्। अह — अह माणवको भु॒ङ्क्ते शोभनम्। पूजायामिति किम् ? पश्य मृगो धा॒व॒ति॒। पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम्। तद्धि प्रतिषेधस्य प्रतिषेधेन संबद्धमिति॥
एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ॥
तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि - पश्य मृगो धावतीति । तत्वकथनमेतत् । ननु'पूजायां नानन्तरम्' इत्यतः पूजायामित्यनुवर्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह - पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृताविहापि'न लुट्' इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च - अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ॥