8-1-38 उपसर्गव्यपेतं च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ यावद्यथाभ्याम् पूजायां न
यावद्यथाभ्यां युक्तम् उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति। किं तर्हि? अनुदात्तमेव भवति। पूर्वमनन्तरमित्युक्तम् , उपसर्गव्यवधानार्थोऽयमारम्भः। यावत् प्रप॒च॒ति॒ शोभनम्। यथा प्रप॒च॒ति॒ शोभनम्। यावत् प्रक॒रो॒ति॒ चारु। यथा प्रक॒रो॒ति॒ चारु। अनन्तरमित्येव — यावद् देवदत्तः प्रपच॑ति शोभनम्। यथा विष्णुमित्रः प्रक॒रोति॑ चारु॥
पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥
व्यवायः उ व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङ्न्तमात्रस्य ॥