8-1-37 पूजायां न अनन्तरम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ यावद्यथाभ्याम्
यावद् यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायां विषये नानुदात्तं न भवति। किं तर्हि ? अनुदात्तमेव। यावत् प॒च॒ति॒ शोभनम्। यथा प॒च॒ति॒ शोभनम्। यावत् क॒रो॒ति॒ चारु। यथा क॒रो॒ति॒ चारु। पूजायामिति किम् ? यावद् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। अनन्तरमिति किम् ? यावद् देवदत्तः पच॑ति शोभनम्। यथा देवदत्तः क॒रोति॑ चारु। पूर्वणात्र निघातः प्रतिषिध्यते॥
यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥
द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह - कि तर्ह्यनुदातमिति । यावद्देवदत इति । ननु चोतरत्र नियमो विज्ञास्यते - व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युतरत्रास्य प्रयोजनम् - उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु'व्यवाये यदि भवति उपसर्गेणैव' इत्यस्मादेव नियमातत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्तुम् ॥