8-1-36 यावद्यथाभ्याम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
यावद् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यादव् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। यावद॒धी॒ते। यथा अ॒धी॒ते। देवदत्तः पच॑ति यावत्। देवदत्तः पच॑ति यथा। परेणापि योगे भवति प्रतिषेधः॥
आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ॥
यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु ।'यावद्यथाभ्याम्' इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम् -'यद्वृतान्नित्यम्' इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ॥