8-1-35 छन्दसि अनेकम् अपि साकाङ्क्षम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ हि
हि चेति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षमनेकमपि नानुदात्तं भवति, एकमपि। कदाचिदेकं कदाचिदनेकमित्यर्थः। तत्रानेकं तावत् — अनृतं हि मत्तो वद॑ति, पाप्मा एनं विपुनाति॑। तिङन्तद्वयमप्येतद् न निहन्यते। एकं खल्वपि — अग्निर्हि पूर्वमुदज॑यत्, तमिन्द्रोऽनू॒द॒ज॒य॒त्। तिङन्तद्वयमपि हिशब्दयुक्तमेतत्। तत्रैकमुदजयदित्याद्युदात्तम् अपरमनुदात्तम्। अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒त् सा वा अ॑पश्यज्जनि॒तार॒मग्॑रे (तै० सं० ४.२.१०.४)। अजनिष्टेत्याद्युदात्तम्, अपश्यदित्यनुदात्तम्॥
हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ॥
अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङ्न्तं हियुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वचनम् । तदाह - कदाचिदिति । तत्र च्छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था । अनृतं हीति । पाप्मा उ मद उच्यते । यस्मादसौ मतोऽनृतं वदति तस्मादनृतवदनदोषेण युज्यत इत्यर्थः । उदजयदित्याद्यौदातमिति । अत्राजयदित्याद्यौदातमित्यर्थः । अजनिष्ट गर्भमिति अन्तर्भावितण्यर्थत्वाज्जनेरत्र सकर्मकत्वम् ॥