8-1-34 हि च पदस्य पदात् अनुदात्तं सर्वम् अपादादौ अङ्ग अप्रातिलोम्ये
हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति। स हि कु॒रु। स हि पच॑। स हि पठ॑। अप्रातिलोम्य इत्येव — स हि कू॒ज३ वृषल, इदानीं ज्ञास्यसि जाल्म॥
हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ॥
हिशब्दोऽवधारणे हेतौ वा, स च प्रत्युदाहरणे त्वमर्षे ॥