अङ्गाप्रातिलोम्ये

8-1-33 अङ्ग अप्रातिलोम्ये पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति। अङ्ग कु॒रु। अङ्ग पच॑। अङ्ग पठ॑। अप्रातिलोम्य इति किम् ? अङ्ग कू॒ज३ वृषल, इदानीं ज्ञास्यसि जाल्म। कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति॥

Siddhanta Kaumudi

Up

अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रातिलोम्यमुप्रतिकूलकारित्वम्, ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् । एवं चानुलोम्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायाम् । प्रत्युदाहरणे त्वमर्षे ॥