8-1-32 सत्यं प्रश्ने पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
सत्यमित्यनेन युक्तं तिङन्तं नानुदात्तं भवति प्रश्ने। सत्यं भो॒क्ष्यसे॑ ? सत्यम् अ॒ध्ये॒ष्यसे॑ ? प्रश्न इति किम् ? स॒त्यं व॑क्ष्यामि॒ नानृ॑तम् (शौ० सं० ४.९.७)॥
सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ॥