नह प्रत्यारम्भे

8-1-31 नह प्रत्यारम्भे पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नह इत्येतेन युक्तं प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते। नह भो॒क्ष्यसे॑। नह अ॒ध्ये॒ष्यसे॑। प्रत्यारम्भ इति किम् ? न॑ह व॑ै त॑स्मिन्नमु॑ष्मिन् लोके॑ द॑क्षिणामिच्छन्ति (काठ० सं० ९.१२)॥

Siddhanta Kaumudi

Up

नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नहेति निपातसमाहारः प्रतिषेधे वर्तते । प्रत्यारम्भःउपुनरारम्भः । तस्य विषयमाह - चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सयाऊपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ॥