8-1-27 तिङः गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सन आभीक्ष्ण्ये चार्थे वर्तमानान्यनुदात्तानि भवन्ति। पचति गो॒त्र्ाम्। जल्पति गो॒त्र्ाम्। आभीक्ष्ण्ये — पचतिपचति गो॒त्र्ाम्। जल्पतिजल्पति गो॒त्र्ाम्। ब्रुवः — पचति ब्रु॒व॒म्। जल्पति ब्रु॒व॒म्। पचतिपचति ब्रु॒व॒म्। जल्पतिजल्पति ब्रु॒व॒म्। ब्रुव इति ब्रुवः कन् निपातनाद् वच्यादेशाभावश्च॥ गोत्र। ब्रुव। प्रवचन। प्रहसन। प्रकथन। प्रत्ययन। प्रचक्षण। प्राय। विचक्षण। अवचक्षण। स्वाध्याय। भूयिष्ठ। वा नाम (ग० सू० १८१)। नामेत्येतद् वा निहन्यते। पक्ष आद्युदात्तमेव भवति। पचति ना॒म॒, पचति नाम॑। तिङ इति किम् ? कुत्सितं गोत्र॑म्। गोत्रादीनीति किम् ? पचति पा॒पम्। कुत्सनाभीक्ष्ण्ययोरिति किम् ? खनति गोत्रं॑ समेत्य कूपम्। कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम्। तेनान्यत्र ८.१.५७ अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति॥
तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ॥
पचति गोत्रमिति । पचिर्व्यक्तीभावे, यथा - लोकपक्तिरिति, भोजनाद्यर्थं गोत्रं ख्यापयतीत्यर्थः, एवं हि कुत्सा भवति । पचतिपचति गोत्रमिति । विवाहादिविषये पुनः पुनर्गोत्रं ख्यापयतीत्यर्थः । तत्र कुत्साया अभावादाभीक्ष्ण्यग्रहणम् ।'नित्यवीप्सयोः' इति द्विर्वचनम् । ब्रुवशब्दः कुत्सितवचनः, अत एवास्याभीक्ष्ण्ये पृथगुदाहरणं प्रदर्शितम् । पचति प्रवचनमित्यादावात्मप्रशंसया कुत्सा । प्रवचनमुअध्यापनम् ।'वा नाम' इति गणसूत्रं व्याचष्टे - नामेत्येतदिति । पचति पापमिति । पापमिति क्रियाविशेषणम् । खनति गोत्रं समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः । किमिदं कुत्सनाऽऽभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम् - एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङ्ः पराण्यनुदातानि भवन्तीति ? आहोस्विदनुदातविशेषणम् - तिङ्ः पराणि गोत्रादीनि अनुदातानि भवन्त्येतयोरर्थयोरिति ? अस्मिन्विवादे निर्णयमाह - कुत्सनाभीक्ष्ण्यग्रहणं चेति । पठ।ल्त इति पाठः, सन्निवेशविशेषः । तस्य विशेषणं वेदितव्यम् । अयं चार्थो योगविभागाल्लभ्यते,'तिङे गोत्रादीनि' इत्येको योगोऽनुदातविधानार्थः,'कुत्सनाभीक्ष्ण्ययोः' इति द्वितीयो योगः, गोत्रादीनीत्येव, परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्राह्याणीति, तेन किं सिद्धंभवति ? इत्यत आह - तेनेति । अन्यत्रापीति ।'चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः' ,'कुत्सने च गोत्रादौ' इत्यत्र ॥