सपूर्वायाः प्रथमाया विभाषा

8-1-26 सपूर्वायाः प्रथमायाः विभाषा पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विद्यमानपूर्वात् प्रथमान्तात् पदादुत्तरयोर्युष्मदस्मदोर्विभाषा वान्नावादयो न भवन्ति। ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्। ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते। ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते। ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति। ग्रामे छात्रा मा पश्यन्ति, ग्रामे छात्रा मां पश्यन्ति। सपूर्वाया इति किम् ? कम्बलस्ते स्वम्, कम्बलो मे स्वम्। प्रथमाया इति किम् ? कम्बलो ग्रामे ते स्वम्। कम्बलो ग्रामे मे स्वम्॥ युष्मदस्मदोर्विभाषा अनन्वादेश इति वक्तव्यम्॥ इह मा भूत् — अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्। अपर आह॥ सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः॥ कम्बलस्ते स्वम्, कम्बलस्तव स्वम्। कम्बलो मे स्वम्, कम्बलो मम स्वम्। अनन्वादेश इति किम्? अथो कम्बलस्ते स्वम्। अथो कम्बलो मे स्वम्। न तर्हीदानीमिदं वक्तव्यं सपूर्वायाः प्रथमाया विभाषेति? वक्तव्यं च । किं प्रयोजनम्? अन्वादेशार्थम्। अन्वादेशे हि विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्तव स्वम्। अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम्॥

Siddhanta Kaumudi

Up

विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सपूर्वायाः प्रथमाया विभाषा>> - सपूर्वायाः । वां-नावाद्यादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युक्तम् । अन्वादेशेऽपि क्वचिद्विकल्पार्थमिदम् । सहशब्दोऽत्र 'सलोमक' #इत्यादिवद्विद्यमानवाची । वीद्यमानं पूर्वं यस्य इति विग्रहः,तेन सहेति तुल्ययोगे॑ इति सहस्य समासः । तुस्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वात् ।प्रथमे॑त्यनेन तदन्तं गृह्रते । तदाह — विद्यमानेत्यादिना । परयोरित्यनन्तरंयुष्मदस्मदो॑रिति शेषः । भक्तस्त्वमिति ।देवदत्ते॑त्यद्याहार्यम् । हे देवदत्त त्वमपि भक्तः, अहमपि भक्त इत्यन्वयः । तेनेति । भक्तत्वेनेत्यर्थः । त्रायते इति पालयतीत्यर्थः । अत् पूर्ववाक्योपात्तयुष्मदस्मदर्थयोरिह पुनरूपादानादन्वादेशोऽयम् । अत्र 'तेने' त्येतत् पूर्वं विद्यमानं पदं, ततः परंहरि॑रिति प्रथमान्तं, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पः । तथा 'त्रायते' इत्येतत्पूर्वं विद्यमानं पदम्, ततः परं 'सः' इति प्रतमान्तम्, ततः परस्याऽस्मच्छब्दस्यान्वादेशेऽपि मादेशविक्लपः । 'त्रायत' इत्येतन्मध्यमणिन्यायेनोभयत्र संबध्यते । तेने निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, स इत्यस्य विद्यमानपूर्वत्वं च बोध्यम् ।

Padamanjari

Up

विद्यमानपूर्वादिति ।'तेन सहेति तुल्ययोगे' इत्यत्र'तुल्ययोगे' इत्यपाधेः प्रायिकत्वाद्विद्यमानवचनस्यापि सहशब्दस्य समासः,'वोपसर्जनस्य' इति सभावः । युष्मदस्मदोर्विभाषाऽनन्वादेश इति । येयं युष्मदस्मदोर्विभाषा साऽनन्वादेशे भवति, अन्वादेशे तु नित्यमादेशविधिरित्यर्थः । अपर आहेति । पूर्वस्यैव वाक्यस्य व्याख्यानान्तरम् । पूर्व विभाषाऽनुवादेन'विषयो नियम्यते' इत्युक्तम्, इदानीं तु'विशिष्टे विषये विकल्प एव विधीयते' इत्युच्यते । न केवलं सूत्रोक्तविषये ये प्राप्तास्त एव विकल्प्यन्ते, अपि तु सर्वे सर्वविषया इत्यर्थः । न तर्हीति । वक्तव्येनैव सिद्धत्वादिति भावः । अन्वादेशार्थमिति । ननु पूर्वम् ठन्वादेशे सूत्रं न व्याप्रियते, इत्युक्तम्, इदानीं तु'तत्राव व्याप्रियते' इत्युच्यते, तत्कोऽत्र निर्णयः ? इत्याह - तदयमिति । तदिति तत्रेत्यर्थे । वाक्योपन्यासे वा । पूर्वा व्याख्यया बाध्यत इत्यर्थः ॥