पश्यार्थैश्चानालोचने

8-1-25 पश्यार्थैः च अनालोचने पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः

Kashika

Up

index: 8.1.25 sutra: पश्यार्थैश्चानालोचने


पश्यार्थाः दर्शनार्थाः। दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम्। तैः पश्यार्थेरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति। ग्रामस्तव स्वं समीक्ष्यागतः। ग्रामो मम स्वं समीक्ष्यागतः। ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः। ग्रामो मह्यं दीयमानं समीक्ष्यागतः। ग्रामस्त्वां समीक्ष्यागतः। ग्रामो मां समीक्ष्यागतः। अनालोचने इति किम्? ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति। पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते। तथा च एव उदाहृतम्।

Siddhanta Kaumudi

Up

index: 8.1.25 sutra: पश्यार्थैश्चानालोचने


अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥

Balamanorama

Up

index: 8.1.25 sutra: पश्यार्थैश्चानालोचने


पश्यार्थैश्चानालोचने - पश्यार्थैश्चानालोचने । दर्शनं पश्यः । 'दृशिर्प्रेक्षणे' इत्यस्मादत एव निपातनाद्भावे शप्रत्ययः ।पाघ्रे॑ति पश्यादेशः । पश्यः=दर्शनमर्थो येषां ते पश्यार्थाः, तैरिति विग्रहः । आलोचनं=चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः । दर्शनार्थकैरित्यर्थः । पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात् । तदाह — अचाश्रुषेत्यादिना । चेतसेति । देवेत्यध्याहार्यम् । हे देव मनसा त्वां चिन्तयतीत्यर्थः । परम्परेति ।न चवाहे॑त्यत्र युक्तग्रहणसामर्थ्यात्साक्षात्संबन्धविवक्षा युक्ता । इह तु तद्विवक्षायां मानाऽभावात्परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः । भक्तस्तवेति । देवेत्यध्याहार्यम् । इह तवेत्यस्य रूपेणान्वयो न तु साक्षाद्भ्यायतिनेति भावः । 'अनालोचने' इत्यस्य प्रयोजनमाह — आलोचना त्विति ।

Padamanjari

Up

index: 8.1.25 sutra: पश्यार्थैश्चानालोचने


दर्शनमु पश्यः । अस्मादेव निपातनाद् भावे शप्रत्ययः, पाघ्रादिसूत्रेण पश्यादेशः, पश्योऽर्थो तेषां ते पश्यार्थाः, तदाह - पश्यार्था दर्शनार्था इति । यदि तु'पाघ्राध्माधेट्दृशः शः' इति कर्तरि शप्रत्ययः स्यात्, ततो द्रष्ट्रर्थैरित्यर्थः स्यात्, तथा चालोचनपर्युदासोऽनर्थकः स्यात्, न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । दर्शनं ज्ञानमिति । यद्यपि दृशिश्चक्षुर्विज्ञाने प्रसिद्धः, तथापि तस्य पर्युदासात् ज्ञानमात्रे दृशिरिह वर्तत इत्यर्थः । ग्रामः उ जनसमुदायः । समीक्ष्य मनसा निरूप्येत्यर्थः ॥