न चवाहाहैवयुक्ते

8-1-24 न चवाहाहैवयुक्ते पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

च वा ह अह एव एभिर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति। पूर्वेण प्रकरणेन प्राप्ताः प्रतिषिध्यन्ते। ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम्। ग्रामस्तुभ्यं च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्यां च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते। ग्रामस्त्वां च पश्यति, ग्रामो मां च पश्यति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, अस्मांश्च पश्यति। वा — ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर्वा स्वम्, आवयोर्वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम्। ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते। ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। ह — ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर्ह स्वम्, आवयोर्ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम्। ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यं ह दीयते, अस्मभ्यं ह दीयते। ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति। अह — ग्रामस्तवाह स्वम्, ग्रामो ममाह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकमह स्वम्, अस्माकमह स्वम्। ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते, युवाभ्यामह दीयते, आवाभ्यामह दीयते, युष्मभ्यमह दीयते, अस्मभ्यमह दीयते। ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति। एव — ग्रामस्तवैव स्वम्, ग्रामो ममैव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकमेव स्वम्, अस्माकमेव स्वम्। ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते, युवाभ्यामेव दीयते, आवाभ्यामेव दीयते, युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते। ग्रामस्त्वामेव पश्यति, ग्रामो मामेव पश्यति, युवामेव पश्यति, आवामेव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति। युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्। युक्तयुक्ते प्रतिषेधो न भवति। ग्रामश्च ते स्वम्। नगरं च मे स्वम्॥

Siddhanta Kaumudi

Up

चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<न चवाहाहैवयुक्ते>> - न चवाहा । च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः युक्त इति भावे क्तः । तदाह — चादिपञ्चकयोगे इति । पञ्चानामन्यतमेन योगे इत्यर्थः । एते इति । वांनावादय इत्यर्थः ।युष्मदस्मदोः षष्ठी॑त्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः । इत्यादीति ।कृष्णो मम हा प्रसीदति॑ । अद्भुतमिदमित्यर्थः ।कृष्णो ममाऽह न प्रसीदति ॑ । अहेति खेदे । कृष्णो ममैव सेव्यः । ननु ' न चवाहाहैवैः' इत्येवास्तु, मास्तु युक्तग्रहणम् । 'वृद्धो यूना' इत्यादिवत्तृतीययैव तल्लाभादित्यत आह — युक्तग्रहणादिति । अत्र चाद्यर्थैः समुच्चयादिभिर्युष्मदस्मदर्थोः साक्षादन्वयस्तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्र 'च' शब्दस्य हरिहरियोः साक्षादन्वयः । समुच्चितयोर्हरिहरियोः स्वामीत्यत्रान्वयः ।स्वामी॑त्यस्य मे इत्यनेनान्वयः । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाऽभावान्मेआदेशस्य निषेधो नेति भावः ।

Padamanjari

Up

चः समुच्चये, वा विकल्पे, ह अहेत्यद्भुते, ह खेदे च, एवोऽवधारणे । एभिर्युक्त इति । एभिर्योगे सतीत्यर्थः । यद्वा - एभिर्युक्ते युष्मदस्मदारर्थ इत्यर्थः । युक्तग्रहणमनर्थकम्, तृतीयानिर्द्देशत एव सिद्धम्, यथा'तुल्यार्थैरतुलोपमाभ्याम्' इत्यत्र ? इत्यत आह - युक्तग्रहणमिति । यदा युष्मदस्मदर्थगतान्समुच्चयादआआश्चादयो द्योतयन्ति, तदा तैस्तयोः साक्षाद्योगः; तत्रैवायं प्रतिषेधो यथा स्यात्, युक्तयुक्ते मा भूदित्येवमर्थ युक्तग्रहणमित्यर्थः । एतदेव युक्तग्रहणं लिङ्गम् - अत्र प्रकरणे युक्तयुक्तस्यापि ग्रहणमिति, तेनोतरः प्रतिषेधो युक्तयुक्तेषु भवति ॥