त्वामौ द्वितीयायाः

8-1-23 त्वामौ द्वितीयायाः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः एकवचनस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकवचनस्येति वर्तते। द्वितीयाया यदेकवचनं तदन्तयोर्युष्मदस्मदोर्यथासंख्यं त्वा मा इत्येतावादेशौ भवतः। ग्रामस्त्वा॒ पश्यति। ग्रामो मा॒ पश्यति॥

Siddhanta Kaumudi

Up

द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥<!समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः !> (वार्तिकम्) ।<!एकतिङ्वाक्यम् !> (वार्तिकम्) ॥ तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ।<!एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः !> (वार्तिकम्) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥

Laghu Siddhanta Kaumudi

Up

द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥
श्रीशस्तवाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः। स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स नः॥ <<एकवाक्ये युष्मदस्मदादेशा वक्तव्याः>> (वार्त्तिकम्) । एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। <<एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः>> (वार्त्तिकम्)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<त्वामौ द्वितीयायाः>> - त्वामौ द्वितीयायाः । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।अथ विभक्तिक्रमकॢप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि ।तत्रश्रीशस्त्वावतु मापीहे॑ति प्रथमः पादः । श्रिया ईशः==पतिः — विष्णुः, त्वा मा अपि पातु इत्यन्वयः । अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः । 'डु दाञ् दाने' आशिषि लोटि दत्तादिति रूपम् ।दद्या॑दिति क्वचित्पाठः । अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः । अत्र युवामावाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ । सुखं वां नौ ददात्वीश इति । 'नौ' इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत् युवाभ्यामावाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ । सोऽव्याद्वो न इति । सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । 'न' इत्यनन्तरम्अपी॑त्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ । सेव्योऽत्र वः स न इति । स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः ।कृत्यानां कर्तरि वा॑ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ । त्वां पातु मां पात्विति । अत्र युष्मदस्मोः पदात्परत्वाऽभावात्त्वामौ द्वितीयायाः॑ इति न भवतीत्यर्थः । अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः । तत्र सन्ध्यभावेअस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः । 'संवेद्य' इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च । पूर्वान्तत्वे तुस्मा॑नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि 'संवेद्यो' इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम् ।स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च । परादित्वाच्चास्मच्छब्दरूपता ।उभयत आश्रयणे नान्तादिव॑दिति तु नास्तीतीण्धातौ निरूपयिष्यामः । केचित्तुअपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु॑ इति प्रत्युदाहरन्ति । तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः । अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः॑ इत्येव सूत्र्यतां, कि स्थग्रहणेन । स्थग्रहणे ।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह — हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता । षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः । अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः । इति युष्मत्पुत्र इति । पदात्परत्वं सम्पादयितुम् 'इति' शब्दः । युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः । अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न,प्रत्ययोत्तरपदयोश्चे॑ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये #इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निघातशब्दोऽनुदात्तवाची । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । एकस्तिङ् यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव । तेनपश्य मृगो धावती॑त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम् । ओदनमिति.॒ओदनं पचे॑त्येकं वाक्यम् ।तव भविष्यती॑त्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः । शालीनामिति । व्रीहीणामित्यर्थः । प्रकृतिविकारभावे षष्ठी ।एते वांनावादय इति । इदंच 'सपूर्वायाः' इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत्अन्वादेशे तु नित्य॑मित्यस्योदाहरणमाह — तस्यमै ते नम इत्येवेति । अत्रयोऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः॑ इत्यादिपूर्ववाक्यं द्रष्टव्यम् । एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः ।

Padamanjari

Up