8-1-22 तेमयौ एकवचनस्य पदस्य पदात् अनुदात्तं सर्वम् अपादादौ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः
युष्मदस्मदोरेकवचनान्तयोः षष्ठीचतुर्थीस्थयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः। ग्रामस्ते॒ स्वम्। ग्रामो मे॒ स्वम्। ग्रामस्ते॒ दीयते। ग्रामो मे॒ दीयते। द्वितीयान्तस्यादेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योरेवायं योगः॥
उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥