8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वांनावौ पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
युष्मदस्मद् इत्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वाम् नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ। पदस्य पदादनुदात्तं सर्वमपादादाविति सर्वमिह संबध्यते। ग्रामो वां॒ स्वम्। जनपदो ना॒ै स्वम्। ग्रामो वां॒ दीयते। जनपदो ना॒ै दीयते। ग्रामो वां॒ पश्यति। जनपदो ना॒ै पश्यति। एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोरेतावादेशौ विज्ञायेते। षष्ठीचतुर्थीद्वितीयास्थयोरिति किम्? ग्रामे युवाभ्यां कृतम्। स्थग्रहणं श्रूयमाणविभक्त्यर्थम्। इह मा भूत् — अयं युष्मत्पुत्रः, अयमस्मत्पुत्र इति॥
पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥
द्विवचनान्तयोरेवेति । तेन वचनान्तरेणोदाहृतमिति भावः । स्थग्रहणमनर्थकम्, षष्ठ।लदिष्वादेशविधानादेव तात्स्थ्यंसिद्धेः ? इत्यत आह - स्थग्रहणमिति । श्रूयमाणविभक्तिकयोरेवादेशा यथा स्युः, लुप्तविभक्तिकयोर्मा भूवन्नित्यर्थः । श्रूयमाणायां हि विभक्तौ तत्स्थत्वं भवति, न पुनर्लुप्तायाम् । पत्ययलक्षणेनापि कार्यं शास्त्रं वाऽतिदिश्यते, न तात्स्थ्यम् । यदि वा तिष्ठतिरवमविहानावपि दृष्टः, यथा - समये तिष्ठ सुग्रीवेति, समयं मा विहासीरित्यर्थः । तेनायमर्थः - षष्ठीचतुर्थीद्वितीया अजहतोर्युष्मदस्मदोरादेशा भवन्तीति । इति युष्मत्पुत्र इति । इतिशब्दात्पदात्परयोः षष्ठ।ल्न्तयोर्युष्मदस्मदोः प्रत्ययलक्षणेन वान्नावौ न भवतः ॥